अंगेनांगं प्रतनु तनुना गाढतप्तेन तप्तं
सास्रेणाश्रुद्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।
उष्णोछ्वासं समधिकतरोच्छ्वासिना दूरवर्ती
संकल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥३९॥
अङ्गेनेति ॥ किं च । दूरवर्ती दूरस्थः । न चागन्तुं शक्यत इत्याह । वैरिणा विरोधिना विधिना दैवेन रुद्धमार्गः प्रतिबद्धवर्त्मा स ते सहचरः तनुना कृशेन गाढतप्तेनात्यन्तसंतप्तेन सास्रेण साश्रुणा । उत्कण्ठा वेदनास्यजातोत्कण्ठितस्तेनोत्कण्ठितेन ॥ "तदस्य संजातम्-" इत्यादिने तच्प्रत्ययः उत्कण्ठतेर्वा कर्तरि क्तः ॥ समधिकतरमधिकमुच्छ्वासितीति समधिकतरोच्छ्वासितेन ॥ दीर्घनिःश्वासिनेत्यर्थः ॥ ताच्छील्ये णिनिः ॥ अङ्गेन स्वशरीरेण प्रतनु कृशं तप्तं वियोगदुःखेन संतप्तमश्रुद्रुतमश्रुक्लिन्नम् ॥ अश्रु नेत्राम्बु । " रोदनं चास्रमश्र च" इत्यमरः । अविरतोत्कण्ठमविच्छिन्नवेदनमुष्णोच्छ्वासं तीव्रनिःस्वासम् । “तिग्मं तीव्रं खरं तीक्ष्णं चण्डमुष्णं समं स्मृतम्” इति हलायुधः ॥ अङ्गं त्वदीयं शरीरं तैः स्वसंवेद्यैः संकल्पैर्मनोरथैर्विशति एकीभवतीत्यर्थः ॥ अत्र समरागित्वद्योतनाय नायकेन नायिकायाः समानावस्थत्वमुक्तम् ॥
संप्रति स्वावस्थानिवेदनाय प्रस्तौति-
शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्ता-
त्कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् ।
सोऽतिक्रांतः श्रवणविषयं लोचनाभ्यामदृष्ट-
स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥४०॥
शब्दाख्येयमिति ॥ हे अबले, यस्ते प्रियः सखीनां पुरस्तादग्र
(३९) हे मेघ ! दैवाद्दूरवर्ती तव स्वामी साम्प्रतमङ्गादिकार्श्यादिभिस्त्वस्तुल्य
एवास्तीति ब्रूया इति भावः।
(४०) हे मानिनि ! यस्ते पतिस्त्वदधरपानेच्छया शब्दवाच्यमपि कर्णे वक्तुमुत्सुक आसीत स मन्मुखेनेदमाहेति भावः ।
१ सुतनु तनु च. २ द्रवम्. ३ दीर्घोछ्वासम्. ४ ते. ५ तत्सखीनाम्. ६
अगात् ७ लोचनानाम्. ८ अदृश्यः, अगम्य: ९ विरहित १० संमुखेन.