प्रत्यभिज्ञा स्यात्किं वैदेशिकभावना ॥ प्रवासादागते स्वस्मिन्नित्यलं कलहैर्वृथा ॥" इति ॥
नन्वीदृशीं दशामापन्नेति कथं त्वया निश्चितमत आह-
जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मा-
दित्थंभूतां प्रथमविरहे तामहं तर्कयामि ।
वाचालं मां न खलु सुभगंमन्यभावः करोति
प्रत्यक्षं ते निखिलमचिराद्भ्रातरुक्तं मया यत् ॥३१॥
जान इति ॥ हे मेघ, तव सख्या मनो मयि संभृतस्नेहं संचितानुरागं जाने । अस्मात्स्नेहज्ञानकारणात्प्रथमविरहे । प्रथमग्रहणं दुःखातिशयद्योतनार्थम् । तां त्वत्सखीमित्थंभूतां पूर्वोक्तावस्थामापन्नां तर्कयामि ननु सुभगमानिनामेष स्वभावो यदात्मनि स्त्रीणामनुरागप्रकटनं तत्राहवाचालमिति ॥ सुभगमात्मानं मन्यत इति सुभगंमन्यः ॥ "आत्ममाने खश्च" इति खश्प्रत्ययः । “अरुर्द्विषद-" इत्यादिना मुमागमः ॥ तस्य भावः सुभगंमन्यभावः सुभगमानित्वं मां वाचालं बहुभाषिणं न करोति खलु । सौन्दर्याभिमानितां न प्रकटयामीत्यर्थः ॥ "स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक्" इत्यमरः ॥ "आलजाटचौ बहुभाषिणि" इत्यालच्प्रत्ययः ॥ किंतु हे भ्रातः मयोक्तं यत् "आधिक्षामाम्" इत्यादि तन्निखिलं सर्वमचिराच्छीघ्रमेव ते तव प्रत्यक्षम् । भविष्यतीति शेषः ॥
रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं
प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् ।
त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या
मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥३२॥
(३१) हे मेघ ! मयि लीनेऽपि प्रियाचित्ते तां वियोगादतिदुःखितां जानेऽन्यथा कुतो न मां बहुभाषिणं कुर्यादिति भावः ।
(३२) हे मेघ ! मद्वियोगादकृतशरीरसंस्काराया अपि प्रियाया नेत्रे त्वद्विलोकने
मीनगतिचलितकमलशोभातुल्यतामेष्यत इति भावः ।
१ सुभगं मन्युभावम्. २. सकलम्. ३ क्षोभाकुल.