भुजङ्गभुक्" इत्यमरः । दिवसविगमे सायंकाले यां यष्टिकामध्यास्ते । यष्ट्यामास्त इत्यर्थः । “अधिशीङ्स्थासां कर्म" इति कर्मत्वाद्द्वितीया । "तत्रागारम्" इत्यारभ्य पञ्चसु श्लोकेषु समृद्धवस्तुवर्णनादुदात्तालंकारः । तदुक्तम्-"तदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते” इति ॥ न चैषा स्वभावोक्तिर्भाविकं वा, तत्र यथास्थितवस्तुवर्णनात् । अत्र तु "कविप्रतिभोत्थापितसंभाव्यमानैश्वर्यशालिवस्तुवर्णनादरोपितविषयत्वमिति ताभ्यामस्य भेदः" इत्यलंकारसर्वस्वकारः ॥
एभिः साधो ! हृदयनिहितैर्लक्षणैर्लक्षयेथा
द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा ।
क्षामच्छायं भवनमधुना मद्वियोगेन नूनं
सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम्॥१७॥
एभिरिति ॥ हे साधो निपुण ! “साधुः समर्थो निपुणो वा" इति काशिकायाम् । हृदयनिहितैः अविस्मृतैरित्यर्थः ॥ एभिः पूर्वोक्तैर्लक्षणैस्तोरणादिभिरभिज्ञानैर्द्वारोपान्ते । एकवचनमविवक्षितम् । द्वारपार्श्वयोरित्यर्थः । लिखिते वपुषी आकृती ययोस्तौ तथोक्तौ शङ्खपद्मौ नाम निधिवेशेषौ । “निधिर्ना शेवधिर्मेदाः पद्मशङ्खादयो निधेः" इत्यमरः । दृष्ट्वा च नूनं सत्यमधुनेदानीम् । “अधुना" इति निपातः। मद्वियोगेन मम प्रवासेन क्षामच्छायं मन्दच्छायमुत्सवोपरमात्क्षीणकान्ति भवनं मद्गृहं लक्षयेथा निश्चिनुयाः, तथाहि । सूर्यापाये सति कमलं पद्म स्वामात्मीयामभिख्यां शोभाम् ॥ "अभिख्या नामशोभयोः" इत्यमरः । न पुष्यति नोपचिनोति खलु । सूर्यविरहितं पद्ममिव पतिविरहितं गृहं न शोभत इत्यर्थः ॥
निजगृहनिश्चयानन्तरं कृत्यमाह-
गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः
क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः।
(७७) हे मेघ ! सूर्यं विना कमलमिव मां विना मदीयभवनं शोभाहीनमित्युक्तचिन्हैस्तज्ज्ञातव्यमिति भावः ।
१ लक्षणीयम्, २ मन्दच्छायम्, ३ तत्परित्राण ।