पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
49
MEGHADUTA

शुभसूचनमत्र । स्त्रीणां हि वामातिक्षिस्फुरणमानन्दमासन्नमाह । कीदृशं नयनम् । लम्बैरलकैरुद्धापाङ्गप्रसरं निवृत्तकटाक्षक्षेपम् । शोकाच्चाञ्जनस्नेहेन रहितम् । तथा मद्यम्य वर्जनाद्विस्खलितभ्रूविनामम ॥ ९२ ॥

  वामो वास्याः कररुहपदैर्मुच्यमानो मदीये-
  मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या ।
  संभोगान्ते मम समुचितो हस्तसंवाहनानां
  यास्यत्यूरूः सरसकदलीस्तम्भगौरश्चलत्वम् ॥ ९३ ॥

 त्वय्यामन्ने वामो वोरुरस्याश्चलत्वं यास्यति स्फुरिष्यति । वाशब्दो नयनस्पन्दापेक्षया विकल्पे । कीदृशोऽसौ । मामकैर्नखक्षतैर्वर्ज्यमानः । नित्याभ्यस्तं च मौक्तिककलापं विधिवैधुर्यात्त्याजित उपेक्षितः । शैत्यार्थं हि तत्र तस्य करणमभूत् । तथा सुरतसमाप्तौ मम करोपमर्दनयोग्यः । अभिनवकदलीकाण्डवच्च गौरः श्वेतः ॥ ९३ ॥

  तस्मिन्काले जलद दयिता लब्धनिद्रा यदि स्या-
  दन्वास्यैनां' स्तनितविमुखो याममात्रं सहस्व ।
  मा भूदस्याः प्रणयिनि मयि स्वप्नलभ्ये कथंचि-
  त्सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ ९४ ॥

 हे जलद तस्मिन्कालेऽर्धरात्रसमये प्रिया चेत्सुप्ता भवेत्तदेनामन्वास्य सेवित्वा त्यक्तगर्जितस्त्वं क्षणमात्रं सहस्व प्रतीक्षेथाः । मा स्म तां बोधयः । किमर्थमित्याह । मयि प्रेयसि कथंचिद्दैवात्स्वप्नासादिते सति तस्या गाढोपगूढं दृढालिङ्गनं सद्यस्तत्क्षणं कण्ठच्युतभुजलताग्रन्थि गलभ्रष्टबाहुवल्लीपाशं मा भूत् । आश्लेषविच्छेदो मा स्म भवदित्यर्थः । नूनं मा मामालिङ्गितमात्मना स्वप्ने द्रक्ष्यति । उपगूढशब्दो भावे । अन्वासनं सेवनम् ।


1 वामशास्याः J,I,S. 'कमक• D; •कदलीगर्भ• J. यदि मा नब्धनिद्रामुखा स्था• J, M, S, ID. • तवामीन:S, D. Apur: 8. जनेJ. Pīm. iii, 3, 176, and vi, 1, 7-1. 3 V.