पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
26
MEGHADUTA

श्चन्द्रिकया धौतापाङ्गं क्षालितनेत्रान्तम् । गर्जितैः कीदृशैः । अद्रिग्रहणगुरुभिः पर्वतप्राप्तिपीवरैः । अद्रिग्रहणशब्दे न कर्तृपष्ठीसमासः । नर्तयेथा इति न पादमीत्यादिनात्मनेपदम् ॥ ४४ ॥

  आराध्यैवं शरवणभुवं देवमुल्लङ्घिताध्वा
  सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः ।
  व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्य-
  स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ ४५ ॥

 शरवणभुवं कुमारमेवं पुष्पासारैः स्नपनादिप्रकारेणाराध्य किंचिच्चाध्वानमतिक्रम्य रन्तिदेवम्य राज्ञः कीर्तिं चर्मण्वत्याख्यां मानयिष्यन्पूजयितुं व्यालम्बेथाः श्रयेथा गच्छेः । कीदृशीम् । सुरभितनया गावस्तासामालम्भनं प्रोक्षणं ततो जाता प्रसूता भुवि च स्रोतोमूर्त्या प्रवाहरूपेण परिणतां रूपान्तरं गताम् । तेन हि नृपेण क्रतुष्वतिबृंहीयस्यो गावः संक्षापिता यासं रुधिराच्चर्मभ्यश्च चर्मण्वती सम्पन्नेत्यागमः । त्वं कीदृशः । सिद्धमिथुनस्तोयबिन्दुत्रासान्मुक्तमार्गः परिहृतपथः । यतो वीणिभिर्वल्लकीहस्तैः । तन्त्रीर्हि' जलार्द्रा विस्वरा भवति । अपरासाद्य वीर्यं सोढुमक्षमया गङ्गया शरवणे त्यक्तमित्यतः शरजत्वं स्कन्दस्य । प्रतिरन्तःशरेक्षुप्लक्षेत्यादिना णत्वम् ॥ ४५ ॥

  त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे
  तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् ।
  प्रेक्षिष्यन्ते गगनगतयो दूरमावर्ज्य दृष्टी-
  रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ४६ ॥

 त्वयि तोयं ग्रहीतुमवनते लम्बमाने सति तस्याः मिन्धोश्चर्मण्वत्याः

प्रवाहं सिताख्या नभश्चराश्चक्षूंषि दूरमत्यर्थमावर्ज्य निक्षिप्य कौतुकाद्द्रक्ष्यन्ति । यतो भुवः स्थूलमध्येन्द्रनीलमेकं मुक्तागुणं मौक्तिकदामेव । स्रोतसो मुक्तागुणनिभत्वादम्बुदस्य च महानीलतुल्यत्वात् । कीदृशं


'Cf. Pan. ii, 2, 15. ? Pin. i, 3, 89. पाराध्येनं शरवणभवं J,M,S. * morit rr A, B, C, D. S lūn. viii, 4, 6. भूगमावर्च J, M, 8, D. - 0