यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥
कश्चिद्यक्षः पुण्यजनो रामगिर्याश्रमेषु चित्रकुटाचलतपोवनेषु वसतिं चक्रे व्यधात् । निजपुरीमलकामपहाय तत्र वासे कारणमाह । भर्तुः प्रभोर्धनदस्य शापेनास्तंगमितमहिमा नष्टतेजाः । कीदृशेन । कान्ताविरहगुरुणा प्रियाविरहदुःखेन । तथा वर्षभोग्यण' संवत्सरमनुभाव्येन । किमिति तेनास्य शापोऽदायीत्याह । स्वाधिकारप्रमत्तो निजव्यापारावलिप्तः । स हि जायायां व्यसनित्वात्स्वमधिकारमनपेक्षमाणो राजराजेन । तथैव तव वर्षं विरहोऽस्तु । महिमा ते नश्यत्विति शप्तः । रामाद्रिमतः स आययौ । कीदृशेष्वाश्रमेषु । जनकतनयास्नामपुण्योदकेषु सीतामज्जनपवित्रतोयेषु । यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते । राघवसंनिधानेऽपि सीतायाः प्रशंमा शृङ्गाराश्रयत्वेन काव्यस्य चिकीर्षितत्वात् । तथा स्निग्धा अपरुषा छायाप्रधानास्तरवो येष्विति सेव्यत्वकथनम् । वर्षं भोग्यो वर्षभोग्यः । काला अत्यन्तमयोगे चेति ममासः । रामगिरिरत्र चित्रकूटः । न तु ऋष्यमूकः । तत्र सीताया वासाभावात् । सर्वत्र मन्दाक्रान्ता वृत्तम् । प्रवासविप्रलम्भो रसः ॥ १ ॥
तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी
नीत्वा मासान्कनकवलभ्रंशरिक्तप्रकोष्ठः ।
आषाढस्य प्रशमदिवसे मेघमाश्लिष्टसानुं
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥
ततोऽसौ यक्षः कतिचित्सप्ताष्टान्मासान्नीत्वातिवाह्य तस्मिन्नद्रौ चित्रकूटे मेघं ददर्शालोकितवान् । अबलाविप्रयुक्तः प्रियाविरहितः । अतश्च दौर्बल्यात्कनकलयभ्रंशेन सौवर्णकटकपातेन रिक्तप्रकोष्ठः शून्यभुजः । कामी व्यसनी । कीदृशम् । आश्लिष्टसानुमालिङ्गिताद्रिप्रस्थम् । अत-
1 •भोग्येन A, B, C, D; cf.p.1, note 6. 2 kumdrasaibhara, vi, 56. Paņ. ii, 1, 28, 29. • प्रथमदिवसे J, M, S. 3