संवाहकः–कुदो दइश्शं । [कुतो दास्यामि ? ।] ( इति पतति )
( माधुरः कर्षति )
संवाहकः--अज्जा ! पलित्ताअध पलित्ताअध । [ आर्याः ! परित्रा- यध्वं परियायध्वम्।]
(ततः प्रविशति दर्दुरकः )
दर्दुरकः--भोः ! द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम् । न गणयति पराभवं कुतश्चिद्धरति ददाति च नित्यमर्थजातम् । नृपतिरिव निकाममायदर्शी विभववता समुपास्यते जनेन ॥७ ॥</poem>}}}} अपि च,
द्रव्यं लब्धं धृतेनैव दारा मित्रं द्यूतेनैव । |
अपि च,----
त्रेताहृतसर्वस्वः पावरपतनाञ्च शोषितशरीरः । |
( अग्रतोऽवलोक्य ) अयमस्माकं पूर्वसभिको माथुर इत एवाभिवर्तते । भवतु, अपक्रमितुं न शक्यते । तदवगुण्ठयाम्यात्मानम् । ( बहुविधं नाट्यं कृत्वा स्थितः, उत्तरीयं निरीक्ष्य )
एष एतादृशावस्थो वर्ते मन्दभाग्यः ।। नेति । अतिशयमायस्य दर्शको राजेवेश्वरेणापि पुरुषेण सेव्यते ॥ ७ ॥ द्रव्यं लब्धमित्यादि । विद्युन्माला ॥ ८ ॥ त्रेतेति । त्रेता ‘तीया' इति प्रसिद्धः । पावरो ‘दूआ' इति ख्यातः । नर्दितो ‘नान्दी” इति प्रसिद्धः । कटेन 'पूरा' इति प्रसिद्धेन । 'पावरः पूरा, कटो दुआ'
| टिप्प०--1 जनपदमन्तरा विना च सेनादिकं तावदाकस्मिकोद्दामद्रव्यलाभसंभ- वात असिंहासनं राज्यं द्यूतमित्यर्थः । 2 दार'शब्दे बहुत्वं पुंस्त्वं च शब्दशकि- स्वाभाव्यायत्तं साधुत्वमात्रोपयोगीति बोध्यम् । श्लोकेऽस्मिन् दर्दुरकः स्वीयं पराजय बर्णयति । ३ नर्दितपतनेन दर्शितो मार्गो यस्य सः। 4 एतेन दर्दूरकेणापि
माथुरस्य देयमस्तीति ध्वन्यते ।