पृष्ठम्:मृच्छकटिकम्.pdf/३००

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९२
मृच्छकटिके

 शकारः–हीमादिके, पचुज्जीविदे म्हि । [ आश्चर्यम्, प्रयुज्जीवि- तोऽस्मि । ] ( इति पुरुषैः सह निष्क्रान्तः )

(नेपथ्ये कलकलः)

(पुनर्नेपथ्ये )

 एसा अज्जचालुदत्तस्स वहुआ अज्जा धूदा पदे वसणंचले विलग्गंतं दारलं आक्खिवंती बाप्फभरिदणअणेहिं जणेहिं णिवारिजमाणा पज्जलिदे पावए पविसदि। [एषार्यचारुदत्तस्य वधूरार्या धूता पदे वसनाञ्चले विलगन्तं दारकमाक्षिपन्ती बाष्पभरितनयनैर्जनैर्निवार्यमाणा प्रज्वलिते पावके प्रविशति ।]

 शर्विलकः-{ आकर्ण्य, नेपथ्याभिमुखमवलोक्य ) कथं चन्दनकः । चन्दनक ! किमेतत् १ ।।

 चन्दनकः—( प्रविश्य ) किं ण पेक्खदि अज्जो । महाराअप्पासादं दक्खिणेण महंतो जणसंमद्दो वट्टदि । ('एसा' (पृष्ठे ) इत्यादि पुनः पठति ) कधिदं अ मए तीए, जधा--अज्जे ! मा साहसं करेहि । जीवदि अज्जूचारुदत्तो' त्ति । परंतु दुक्खवावुडदाए को सुणेदि, को पत्तिआएदि । [ किं न पश्यत्यार्यः। महाराजप्रासादं दक्षिणेन महाञ्जनसंमर्दो वर्तते । कथितं च मया तस्यै, यथा-'आर्ये! मी साहसं कुरुष्व । जीवत्यार्यचारुदत्तः' इति । परंतु दुःखव्यापृततया कः शृणोति, कः प्रत्ययते ?।]

 चारुदत्तः—-( सोद्वेगम् ) हा प्रिये ! जीवत्यपि मयि किमेतव्द्यवसि- तम् । ( ऊर्ध्वमवलोक्य दीर्घ निःश्वस्य च )

न2 महीतलस्थितिसहानि भवञ्चरितानि चारुचरिते यदपि ।
उचितं तथापि परलोकसुखं न पतिव्रते ! तच विहाय पतिम् ॥५५॥

( इति मोहमुपगतः ।।


आकर्षन्त्विति ॥ ५३ ॥ शत्रुरिति ॥ ५४॥ न महति ॥ ५५ ॥ | टिप्प,---1 प्राचीनजीर्णटीकापुस्तके ‘यत्सूर्योदयभयतः कचिनोचितपात्रमेलनं न कृतम् । सुन्दरयुक्तिभिरर न्यदाचन्दनकोक्तिनीलकण्ठस्तत् ॥' इत्यार्या पठ्यते, तेनायमग्रिमो ग्रन्थो नीलकण्ठीय इति विभाब्यते । 2 यद्यपि भवत्याश्चारितानि पातिव्रत्यसुशीलतादिलक्षणानि महीतलसहानि न सन्ति, भूतले स्थातुं भूरसमर्था तथापि त्वया

स्वर्गसुखं मया विना त्वयैकाकिन्या पातिव्रत्यान्न भोक्तुं युक्तमिति निष्कर्ष: ।।