विटः–भवति वसन्तसेने ।
किं त्वं कटीतटनिवेशितमुद्रहन्ती । |
शकारः-
अम्हेहिं चंडं अहिशालिअंती वणे शिआली विअ कुक्कुलेहिं । |
[अस्माभिश्चण्डमभिसार्यमाणा शृगालीव कुकुरैः ।। |
वसन्तसेना–पल्लवआ पल्लवआ ! परहुदिए परहुदिये ! ।।[ पल्लवक पल्लवक ! परभृतिके परभृतिके !]
शकारः----( सभयम् ) भावे भावे ! मणुश्शे मणुश्शे ! । [ भाव भाव ! मनुष्या मनुष्याः !]
समकं छन्दः । लामेहि अ रमय च । चकारो भिन्न क्रमः । राजवल्लभं चेत्यर्थः । तो षा(क्खा) हिशि ततः खादिष्यसि मत्स्यमांसकम् । ‘तो इत्योकारो लधुश्छन्दोनुरोधात्' इत्याहुः । “एओकारो हलन्तस्थौ शुद्धौ वाध्यपदान्वितौ । दीर्घात्परौ लधू स्यातां छन्दोविचितिभाषया । इत्युक्तम् । एदेहिं मच्छमंशकेहिं एताभ्यां मत्स्यमांसाभ्यां हेतुभ्याम्। मच्छकलेहिं' इति पाठे मत्स्यशुष्कमांसाभ्यामित्यर्थः । ककारः स्वार्थे । शुणआ श्वानः । मृतकं न सेवन्ते । नकारः शिरश्चालने । न सेवन्ते इति न, अपि तु सेवन्त एवेत्यर्थः ॥ २६ ॥
किं त्वमिति । वकेणा लक्षिता नगरदेवतावत्प्रयासि । कीदृशेन वक्रेण । निर्मथितचूर्णमनःशिलातुल्येन ।। २७ ॥ अम्हेहि चण्डमिति । उपेन्द्रवज्रा छन्दः। अस्माभिश्चण्डं शीघ्रमभिसार्यमाणा वने शृगालीव कुक्कुरैः । पलायसे शीघ्रं त्वरितं सवेगं शर्वेटणं सवृन्तं समूलबन्धम् । मे हेलअं मम हृदयम् । [[rule}} पाठा०-१ शवेढणं,