पृष्ठम्:मृच्छकटिकम्.pdf/२७८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७०
मृच्छकटिके

भोः ! श्रुतं भवद्भिः,

न भीतो मरणादस्मि केवलं दूषितं यशः ।
विशुद्धस्य हि मे मृत्युः पुत्रजन्मसमो भवेत् ॥ २७ ॥

अन्यच्च,-

तेनास्म्यकृतवैरेण क्षुद्रेणात्यल्पबुद्धिना ।
शरणेव विषाक्तेन दूषितेनापि दूषितः ॥ २८ ॥

 चाण्डालौ---थावलअ । अवि शच्चं भणाशि १ । [ स्थावरक ! अपि सत्यं भणसि ?।]

 चेटः----शचं; इग्गे वि मा कश वि कधइश्शशि त्ति पाशादबालगपदोलिकाए दंडणिअलेण बंधिअ णिक्खित्ते । [ सत्यम् ; अहमपि मा कस्यापि कथयिष्यसीति प्रासादवालाग्रप्रतोलिकायां दण्डनिगडेन बद्धानिक्षिप्तः ।]

(प्रविश्य )

 शकारः----( सहर्षम् )

मंशेण तिक्खामिलकेण भते शाकेन शुपेण शमच्छकेण ।।
भुत्तं मए अत्तणअश्श गेहे शालिश्श कूलेण गुलोदणेण ॥ २९ ॥

( कर्ण दत्त्वा ) भिण्णकंशखंखणाए चांडालवाआए शलशंजोए जधी अ एशे उक्खालिदे वझडिडिमशहे पडहाणं अ शुणीअदि, तथा तकेमि, दलिद्दचालुताके वज्झट्ठाणं णीआदि त्ति । ता पेखिशं । शत्तुवि- णाशे णाम मम महंते हलक्कश पलिदोशे होदि । शुदं अ मए, जे वि किल शत्तुं वावादअंतं पेक्खदि, तश्श अण्णरिंश जग्मंतले अक्खि-


॥२६॥ नभीत इति ॥२७॥ तेनेति ॥ २८ ॥ मंशेणेत्यादि । उपजातिच्छन्दः मांसेन तिक्खामिलकेण तिक्ताम्लेन तप्तशाकेन सूपेन समरत्स्यकेन । भुक्तं मयात्मनो गृहे शालार्भक्तेन गुडौदनेन ॥ २१ ॥ भिन्नाकांस्यवत्खंखणाए कटुस्वरायाविकृतवन्याचाण्डालवाचः । स्वरसंयोगः । यथा चैव उत्खालित उद्रतो वच्यडि --