सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतपरीक्षा नाम सप्तमं करणम् ४१ " दिनावसाने तमसाच्छन्नभूमन्डले आविर्भाव यथा, तथैव केनचित, अवस्थान्तरेणाभिभूतानां संस्कृतानां तत्तदवस्थोपरमे आविर्भाव एव सस्क्वतानामुत्पाद इति चेत्, अत्रोच्यते, नैतन मिषण संस्कृताना- मुत्पादः साधयितुं शक्यते, यतः आविर्भावो नाम यथावदवस्थितानामेव वस्तूनां खरुपप्रकाशप्रतिवन्धकोभूतापसरणेन प्रकाश:, न तत्र वस्तुनः किञ्चिदपि भावान्तरं घटते। एवञ्चदुत्पादेनापि न किमपि वस्तू नां परिवर्तन स्यादिति उत्पादः निरर्थक एव स्यात् । यतः उत्पादेनैव संस्कृतानां संस्कारो भवतामभिलषितः, यथावदवस्थितेषु वस्तुषु को नाम उत्पादसाध्यः संस्कारः सम्भवति ? तस्मान्न कथमपि उत्पाद एव साध- यितुं शक्यते। कारिकार्थस्तु संस्कृतलक्षणत्व नाभिमतस्य उत्पादस्य यदि संस्कृतत्वं मन्यसे तदा तस्यापि उत्पादस्थितिभङ्गादिरूपस्य लक्षणस्य लक्ष्चत्वमेव स्यात् । तथापि नोत्पादादयः लक्षणत्वेन बोधनीयाः स्युः। अपि तु लक्ष्यत्वात् रूपादिवदेव ते। अतो न संस्कृतलक्षण सङ्गच्छते इति तात्पर्य्यम् । ननु उत्पादादीनां संस्कृतत्वे सत्येव बादोऽय लव्धस्थितिकः स्यात् । किन्तु तेषां संस्कृतत्वमेव नाङ्गी- क्रियते। अतः कुतोय' विवादप्रसङ्ग इति चेदत्रोच्यते, भवन्मते संस्कृतासंस्कृतानीति विविधाणि वस्तूनि । तस्मात् यद्यव संस्कृतत्वं नाङ्गीक्रियते असंस्कृतत्वमेव सुतरामापतितम् । तथाच सति आकाशादीनामिव एषामपि न संस्कृतलक्षणत्व सम्भवति। नहि तदत्तिधर्मेण तस्य लक्षण भवेत् विगेधात् । नहि तमसा आलोकः अश्वत्वेन वा गौः लक्षयितुं शक्यते । तस्मादेषामसंस्कृतत्वे अभि- मते न संस्कृतलक्षणत्व' युक्तमित्याह अथेति-उत्पादादौनामसंस्कृतत्वे तेषां संस्कृतविरोधिखरूपतया संस्कृतलक्षणत्व न युक्तम्, तहिरोधि- स्वभावेन वस्तुना नहि तलक्षयितुं शक्यते। तथाच उत्पादादीनां संस्कृतत्वे असंस्कृतत्वे वा न कथमपि तेषां संस्कृतलक्षणत्व घटते इति तात्पर्य्यम् ॥१॥ staterastegico atstuga174 217569 atacauta fet रेनोछ। परे थकबाल पराजीव जानामियूटएन १७न कन्ना रोटव । देवजाविक - ६