मूलमध्यमककारिका रागरक्तपरीक्षा नाम षष्ठं प्रकरणम् - - अनाह, विद्यन्ते एव स्कन्धायतनधातवः । कुतः तदाश्रयसंक्ल शोप- लब्धः। इह यन्नास्ति न तदाश्रयसंल थोपलब्धिरस्ति बन्ध्यादुहितु- रिव बन्ध्यासूनोः । सन्ति च रागादयः ल शाः संल शनिबन्धनम् । यथोक्तं भगवता-बालो भिक्षवोऽश्रुतवान पृथगजनः प्रज्ञप्तिमनु- पतितः चक्षुषा रूपाणि दृष्टा सौमनस्यस्थानीयान्यभिनिविशते । सोऽभिनिविष्टः सन् रागमुत्पादयति । रक्तः सन् रागजं हषजं मोहजं कर्माभिसंस्करोति कायेन वाचा मनसेति विस्तरः। उच्यते, सुप्रः स्कन्धायतनधातवो यदि रागादयः एव लशाः सुप्रः। इहायं रागः परिकल्प्यमानो बालपृथग्जनैः सति रक्त नरे परिकल्प्येतासति वा। उभयथा यथा च न युज्यते इत्याह- रागाद्यदि भवेत् पूर्व रक्तो रागतिरस्कृतः । तं प्रतीत्य भवेद्रागो रक्त रागो भवेत् सति || १ तत्र रागः सक्तिरध्यवसानं सङ्गोऽभिनिवेश इति पीयाः। रत्तो रागाश्रयः । स यदि रत्तो रागात् पूर्व रागतिरस्कृतो रागरहितो भवेत तदा त रागतिरस्कृत रक्त प्रतीत्य गगो भवेत्। एवं सति रतो रागो भवदिति युक्तम् । न तु एवं सम्भवति यदागरहितो रक्तः स्यादर्हतामपि रागप्रसङ्गात्॥ (प्रः पा)। यद्यव सति रते न रागः असति तर्हि रत रामोऽस्तु । एतदप्ययुक्तमित्याह- रक्तऽसति पुना रागः कुत एव भविष्यति । यदा सति रक्त रागो नास्ति तदा कथ मसति रक्तो निराश्रयी रागः सेत्यति। न ह्यसति फले तत्पमाता सम्भवतीति (प्रः पाः) ॥
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/२५
दिखावट