सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१ संस्कृतपरीक्षानाम सप्तमं प्रकरणम् उत्पादविनाशरहितोऽपि यदि कश्चिदमः खोक्रियते, तदा सोऽनित्यभाव- विलक्षण एवेति खोकरणीयम् । तथा च सति भावानामनितात्वात् तविलक्षणानां भावत्वमेव व्याहन्येतति तेषां भावविलक्षणत्वमे- वायाति। तथाच अतीतानागताध्वप्रविष्टा नित्यलक्षणाः असन्तः भावविलक्षणत्वात् खपुष्यवदित्यनुमानेन प्रतीतानागताध्व- प्रविष्टानां नित्यविलक्षणानां वन्ध्यातनयादिसदृशालीकस्वरूपतया तषा- मुत्पादस्तु पुनरसम्भव एव। तस्मात् न वर्तमानसा, न वा अतीतस्य अनागतस्य वा उत्पादः सिध्यतीति उत्पादकल्पन कथमपि न युज्यते ईत्याशयेनाह निरुध्यमानस्येति। अतिसूक्ष्मस्वरूपतया अनवरतम- विरलक्रामिण जायमानानां सुतरामिव प्रतिक्षणविनाशिनां वर्तमानत्वना- भिमतानां क्षणानां सर्वदैव निरोधोन्मुखतया निरुध्यमानत्वमेव । वर्तमानकालोनशानच्प्रत्ययेन व्युत्पादितस्य निरुध्यमानपदस्य सुतरामव तात्कालिकोपलब्धिविषयसतस्वरूपत्व सिध्यति । एवञ्चत वर्तमानस्य विद्यमानस्वरूपत्वं प्रतिपादिते सति तदा- क्रान्तभावस्यापि सुतरां सत्स्वरूपत्व स्फुटं प्रतिपनदितं स्यात् । तथाच सति वर्तमानभावस्य सत्स्वरूपेणावस्थिततया सत्वरूपतोप- पादकेननोत्पादेन नहि किमपि प्रयोजन पश्यामः । विनैव उत्पाद सत्त्वे सिद्ध सत्वसाधका वृथैव तत् परिकल्पनम्। यदि च अतीतस्य भावस्य उत्पाद इति मन्यते, तदपि नैवं युज्यते । नहिभावः अतीत इति सिद्ध भवेत् । कुत इति चेत, दत्तावधानं श्रूयताम् । उत्पादस्थितिविना- शशीला खलु भावा इति भवतां मतम् । अतीतस्य च विनाशाभावेन न तत्र भावलक्षणसमन्वय इति अतीतस्य न भावलक्षणत्वमेव सिध्यति । एवमनागतस्यापि उत्पादरहिततया भावविलक्षणत्वमेव। भाववि- लक्षणत्वाच्च अतोतानागतयोः अलोकत्वमिति न तत्रापि उत्पादो युज्यते । सुतरां न वर्तमानस्य नाप्यतोतानागतयोर्वा उत्पादः सिध्यति । . stateralett teftch seat 065 I AT TE quter ce cp17, faos e foi faut ateiten derife gratis app)