सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

28 मूलमध्यमककारिका mana) then it cannot be the resort (Asraya) of the act of origination, for a non-existing object can never be the Asraya of any act (Kriya). So under any circumstances ( whether the object is existing or non-existing ) it cannot have any relationship with the act of origination. There- fore there is hardly any possibility for the opponent to prove his proposition. I 17 | अपि चैव न युज्यमानायामप्युत्पद्यमानस्योत्पत्ती भवतो (मत) मभ्युपेत्योच्यते- उत्पदयमानमुत्पादो यदि चोत्पादयत्ययम्। उत्पादयेत्तमुत्पादमुत्पादः कतमः पुनः||१८|| यद्यप्युत्पद्यमान' पदार्थ मुत्पाद उत्पादयेन्भवन्मतेन, इद तु वक्तव्य', तमिदानीमुत्पादो कतमोऽपर उत्पादमुत्पादयिष्यतीति । अथ स्यात्, उत्पादस्यापर उत्पाद उत्पादकः परिकल्प्येत। तदान- वस्थादोषप्रसङ्ग इत्याह- मजुव्याख्या। साम्प्रत पूर्व सूचितामनवस्थां विशदीकुर्बबाह उत्पद्यमानमिति । तथाहि उत्पादः स्वयमुत्पद्यमान एव परमुत्पादयेत् इति यदि सिद्धान्त: स्यात्तदा महान् दोषः प्रसज्येत, यतः उत्पद्यमानावस्थस्य त्पादस्य उत्पादकतया अपरः कश्चिदुत्पादः कल्पनीय एव स्यात् । सोऽपि यदि उत्पद्यमानावस्थ एव उत्पादमुत्पादयेत् तदा तस्यापि पुनः उत्पादकान्तर कल्पनीयम् । एवञ्च कुत्रापि उत्पादकस्य पर्यवसानासम्भवात् तादृशकार्यकारणभाव एव वस्तुगत्या कल्पयितुं न शक्यते, कार्यकारणभावस्य निश्चयासम्भवात् ॥१८॥