। बोधिसत्त्वस्य। तथा हि खप्ने जागरणे च न मया दृष्टमिदं रजतादौति ( सर्वदर्शनसंग्रहः, बौद्धदर्शनम्, पृ. २८) यो व्यवहारः सर्वेषां लौकिकानां परीक्षकानाञ्च तेनैव सर्वशून्यता समापतिता भवेत्। यथा खप्तकाले दृष्टानां रजतानां न सत्त्व अर्थक्रियाकारित्वाभावात्, एव जागरणऽपि शुत्तौ रजतन्त्रमण प्रवृत्तस्य रजतत्वेनाभिमतदेशमुपागतस्य तादशरजताप्राप्त्या स्वप्ने जागरण च मया नेदं रजतं दृष्टमिति निषेधानुसन्धान प्रवर्तते। तत्र च नेदं रजतं दृष्टमित्यत्र नजर्थस्य क्रियायामन्वयः। क्रिया च कारकाद्यान्विता एव स्यात्। अन्यथा क्रियायाः स्वरूपासम्भवात्। नञर्थश्च निषेधः । तथाच कार कादि- समन्वितक्रियायाः निषेधात् फलतः कर्तृकर्मादिकारकस्य क्रियायाश्च निषेध एवापतितः। नेदं रजतं दृष्टमित्यत्र क्रियासम्पादकरूपण कर्तुः, तहिशिष्टायाः दर्शनक्रियायाः, दर्शनकर्मतया इदन्वायाः, तथा तत्र आरोपितस्य रजतस्य, तत्र रजतत्वादः समवायसमवन्धस्य च उपस्थिति- भवेत्। तत्र नथनिषेधेन सर्वेषां निषेधः अनिषधी वा इत्येकतरपक्ष एव व्यवस्थापनौयः । तत्र रजतत्वादेस्तत्सम्बन्धस्य समवायस्य च निषेधः सर्वेरेव स्वीकरणीयः । अन्यथा तादशप्रत्ययस्य यथार्थत्वा- पत्तेः, तथा निषेधायोगाच्च। एवञ्च समुपस्थितानां पदार्थानामंशविशेषस्य निषेधे अङ्गीकरणोये सुतरामेव सर्वेषां निषधः स्वीकरणीयः, अन्यथा अर्धजरती न्यायकल्पनं स्यात्, तच्चानिष्टम् । तयाच दृश्यत्वेनाभिमतायोः धर्मिधर्मयोः तत्सम्बन्धस्य च अविशेषात् निषेध एव स्यात्। एवञ्च सति धर्मिभूतायाः इदन्वावच्छिन्नतया शुक्तोः, रजतत्वस्य च निषेधाङ्गोकार सर्वेषामेव असत्त्वमेवेति युक्तमुक्त भगवता स शून्यं शून्यमिति। उक्तञ्च सर्वदर्शनसंग्रह-' यदि दृष्ट सत्तदा तविशिष्टस्य दर्शनस्येदंताया अधिष्ठानस्य च तस्मिन्नध्यस्तस्य रजतत्वा- देस्ततसंवद्धस्य च समवायादेः सत्त्व स्यात् । न चैतदिष्ट कस्य- चिवादिनः । न चार्धजरतीयमुचितम् । न न हि कुक्कुट्या एको भागः पाकायापरो भागः प्रसवाय कल्प्यतामिति कल्प्यते तस्मादध्यस्ता- धिष्ठानतत्संवद्धदर्शनद्रष्टणां मध्ये एकस्यानिकस्य असत्त्व धर्मस्य इदन्तया वा
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/११
दिखावट