- सटीका। ध्रुवे रोहिण्युत्तरात्रये चतुषु ध्रुवभेषु । तत्र प्रतिष्ठायां ग्रहयोगानाह-नव ९ धी ५ केंद्र१।४।७ । १० आय ११ संस्थैः शुभैः पापैः षट् ६ त्रि ३ भव ११ स्थितैः । किं कृत्वा प्रतिष्ठापने कुर्यात् रिक्ता- विष्टिकुजान्विहाय रिक्ता ४।९।१४ विधिर्भद्रा कुर्ज मंगलवारं विहाय प्रतिमानां प्रतिष्ठापन कार्यम् ॥ ४९ ।। नृत्यनृपेक्षासेवामद्यारम्भमुहूनः पौष्णे पुष्यवसुद्वये च रविभे मैत्रोत्तरास्विद्रभे सन्नृत्यं नृपतीक्षणं . लघुमृदुश्रीशद्वये सधुवे । शस्तं सेवकरक्षणं स्थिरतनो वारे शनेर्भे ध्रुवे पूर्वार्द्राहिमपेंद्रमूलशतभे याम्ये शुभश्चासवः॥५०॥ पौष्णे इति । एषु भेषु नृत्यारंभणं सत् । क पोष्णे रेवत्यां पुष्ये वसु- दूये धनिष्टाशतभिषजोः रविमे हस्ते मैत्रेऽनुराधायाम् उत्तरासु तिसृष्वपि इंद्रभे ज्येष्ठायां नृत्यं नृत्यारंभः सत् । नदीनां वा नटानां नृत्यशालायां नृत्यारंभणे मुहूर्तावलोकनम् । लघुभानि हस्तपुष्याश्चिन्यभिजितः मृदूनि मृगशीर्षचित्रारेवत्यनुराधाः श्रीशद्वये श्रवणधनिष्ठायां सधुवे ध्रुवं रोहिण्यु- त्तरात्रयं ध्रुवभसहिते नृपतीक्षणं नृपावलोकनं सत् । स्थिरतनौ शनेवार ध्रुवभेषु सेवकरक्षणं शस्तम् । पूर्वासु तिसृषु आर्द्रायां अहिः सर्पः मघायां इंद्रे ज्येष्टायां मूले शतः शततारकायां याम्ये भरण्याम् आसकः शुमः । आसवशब्देन द्राक्षासवो लवंगासवो मधुकासवोऽपि प्रायः । राज्ञामुप-
पृष्ठम्:मुहूर्तदीपकः.pdf/४९
दिखावट