पृष्ठम्:मुहूर्तदीपकः.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- G मुहूर्तदीपक। शंगः इति । मंगक्ष द्विस्वभावराशौ या संक्रांतिः तस्याः षड- शीतिवकं द्विस्वभावराशयो मिथुनकन्याधनुर्मीनाः एताः षडशीति- मुखाभिधाः। मृगे मकरे या संक्रांतिः तत्सौम्यायनं भवति । अत्र पंचसंक्रांतिषु उत्तराः संक्रांतिकालात्पराः षोडश नाड्यो घटिकाः पुण्यदाः । इदं साधारणेन कथितम्-'पूर्वतोऽपि परतोऽपि संक्रमात्पुण्य. कालवटिकास्तु षोडश । ' इति वचनात् । अन्यथा अनयोविशेष उक्तः ब्रह्मवैवर्तादौ-'अतीतानागते पुण्ये द्वे उदग्दक्षिणायने । त्रिंशत्कर्कटके नाड्यो मकरे तु दशाधिकाः ॥' इति मकरे चत्वारिंशत् घटिका उक्ताः । मेषे तथा तौलिनि तुलायां संक्रांतिषु विषुक्त्यां तत्र मध्याः पुण्यतमाः विशेषवचनात् दश प्रोक्ता वर्तन्ते । वर्तमाने तुलामेधे नाड्यस्तूभयतो दश' इति वचनात् । स्थिरे स्थिरराशी दृषसिंहवृश्चिक- कुंभसंक्रांतिषु हरिपदं भवति । कर्कटे याम्यायनं भवति । तत्र पूर्वाः संक्रांतितः प्राक् त्रिंशन्नाडयः पुण्यदाः । तत्र संक्रमकाले तिलान् धान्य घृतं अर्पयेत् । तथा चोक्तम्-' संक्रांती यानि दानानि हव्यकव्यानि भारत । तानि तान्युपतिठंति पितृगामक्षयाय च ॥” इति व्यासः ॥४३॥ करिवाजिगोकर्म। द्वयादित्येऽश्वकरचये च करिणां कर्माथ पौष्णद्वये स्वातीज्यादितिभेकरे मृगवमुद्वंद्वे तथावाजिनाम् । शाक्रेडर्के वसुभद्वयेदितियुगे द्वीशाश्विपोष्णे गा नो कर्णध्रुवपर्वपक्षकदले त्वाष्टे च रिक्तार्कयो॥४॥