सामग्री पर जाएँ

पृष्ठम्:मुहूर्तदीपकः.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सटीका। त्रि बाण ५ त्रये ३त्री ३ ७५ क्षेष्वशुभं शुभ फलमिहाशाशूलपूर्व त्यजेत् ॥ ३९॥ द्वीश इति । द्वीशे मूललघुध्रुवे मृदुचरे पैत्र्ये हलारंमणं के ते द्वीशे विशाखायां मूलं प्रसिद्ध हस्तपुष्याश्व्यभिजित् ध्रुवाणि रोहिण्युत्तरात्रयाणि मृदूनि चित्रारेवत्यनुराधाः चरभानि स्वातिपुनर्वसुश्रवणधनिष्ठाः पैत्र्यं मघा एतेषु क्षेषु हलारंभणं हलप्रवहणं कार्यम् । मंदकुजौ वारौ द्वादशी- सहितां रिक्तां पर्वणी पूर्णिमामावास्ये अष्टमी च त्यक्त्वा । अथ तच्चके हलचके रवेः सूर्यस्य भुक्तभात् गणना कार्या, त्रि त्रीणि इवः पंच त्रि त्रीणि बाणा: पंच त्रयं त्रिणि त्रि त्रीणि इषु पंच ऋक्षेषु नक्षत्रेषु फलं शुभमशुभं ज्ञेयम् । इह गमने आशाशूलपूर्व दिक्शूलं वारशूलं त्यजेत्॥ ३९॥ अथ बीजोतिमुहूर्तः। मैत्रात्ये वसुभे करत्रयमघामूलाश्विांद्रे धुवे पुष्ये सत्खलु बीजवापनमहेश्चक्रे रवेर्भुक्तभात् । त्रिवि- मूनि गले न शोभनफले तुंदेतारा: शुभाः पुच्छेऽन्यत्र चतुष्कपंचक इमे बीजोप्तिकाले खले॥४०॥ मैत्रेति । एषु योगेषु बीजवापनं सत् । केषु मैत्रे अनुराधायां अंत्ये रेवत्यां वसुभे धनिष्ठायां करत्रये हस्तचित्रास्वाती मघायां मूले अश्विन्यां चांद्रे मृगे ध्रुवे रोहिण्युत्तरासु पुष्ये अहेश्चक्रे सर्पा- कारचके रवर्भुक्तभात् त्रिस्त्रिमूनि त्रीणि गले शोभनफले न, तुंदे जठरे अर्कतारा द्वादश धिष्ण्यानि शुभाः पुच्छेऽन्यत्र चतुष्कपंचके पुच्छे चतुष्क अन्यत्र बहिः पंचक इमे बीजोतिकाले खले दुष्टफले भवतः॥४॥