सामग्री पर जाएँ

पृष्ठम्:मुहूर्तदीपकः.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सटीका मीनादेवगृहेऽपसव्यमृषभावेद्या च चापादन सव्यं पूर्वदिशः क्रमेण तमसि द्वारं न सत्सम्मुखे ॥३६ सिंहादिति । इहालये गृहे सत् सिंहात् त्रिषु तिसृषु संक्रांतिषु हरदिशः ईशानकोणतः सव्यं सव्येन शेषस्य शेषनागस्याननं पृष्ठं पुच्छं भ्रमेत् अपरं शून्यं तच्छ्रन्यदिशि खातं शुभं सिंहकन्यातुलासंक्रांतिषु शेषस्येशानकोणे मुखम् आग्नेय्यां पृष्ठं नैर्ऋतो पुच्छ वायव्ये शून्यं तत्र खातं कर्तव्यम् । एवं वृश्चिकादिषु तिसृषु संक्रांतिषु वह्निकोणे मुखं नैति. कोणे पृष्ठं वायव्ये पुच्छम् ईशाने खातः । एवं कुंमादितिसृषु नैर्ऋतौ मुखं वायव्ये पृष्ठम् ईशाने पुच्छम् आग्नेय्यां खातः । एवं देवगृहे मीनाभयं त्रयं गणनीय जलाशये मकरादेवमेव गणनीयम् । तथा च मुहूर्तचिंतामणी- 'देवालये गेहविधौ जलाशये शेषाननं शंभुदिशः क्रमेण । मीनार्कसिंहा- 1 मृमार्कतस्त्रिभे खाते मुखात्पृष्टविदिक्षु भावयेत् ॥' दैवज्ञवल्लभेऽपि- 'ऐयां शिरो भाद्रपदाश्रये च याम्ये तु मार्गापितयेऽहिवक्रम् । तपस्य- मासाभिषु पश्चिमायां ज्येष्ठादिमासाश्रितयेऽप्युदकूस्यात् ॥' इति यत्कन्यादिगणना कृता तद्वास्तुशास्त्रोक्ता । 'प्राच्या नागमुख बुधै- निगदित भाद्राश्विने कार्तिके मार्गात्फाल्गुनशुक्रतस्त्रिषु मुख याम्ये जले चोत्तरे । क्षेत्रेऽष्टाष्टविभाजिते दिनकराद्वारालिखेकोष्ठकाः शन्य- 1 गारकयोश्च तत्र फणिनः शारीरतो नो खनेत् ॥' इति राजवल्लभोक्तम् । पूर्वास्ये निखखातकं यमदिशास्ये खातमीशानके आग्नेय्यां खननं व पश्चिमदिशावके तथैवोत्तरे । वक्त्रं नैर्ऋतिकोणके च खननं वा शंकु- 4 ,