सामग्री पर जाएँ

पृष्ठम्:मुहूर्तदीपकः.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7 " १० मुहर्तदीपक। बारप्रवृत्तेः सकाशात् होरा भवति । किंलक्षणा ? साईघटिद्वयात साई घटिद्वयं यस्याः सा, सा दिनपतोर्दैनवाराहाणां होरा भवति तद्यथा- प्रथमा दिनविभोः द्वितीया तस्मात्षष्ठस्य ततोऽपि षष्ठस्य एवं चतु- विशतिहोरा अहोरात्रे स्युः । तथा च श्रीपतिः-'बारप्रवृत्तेटिका द्वि- निन्नाः कालाख्यहोरापतयः शराप्ताः । दिनाधिपाद्या रविशुक्रसौम्याः शशांकसौरीज्यकुजाः क्रमेण ॥' इति, दिनाधिपाद्णनीयाः, तासां मध्ये चंद्रबुधजीवशुक्राणां होराः श्रेष्ठाः । रविकुजमंदानां होराः सामान्याः अतो मध्याः।।' यस्य ग्रहस्य यद्वारे किंचित्कर्म प्रकीतितम् । तत्तस्य कालहोरायां सर्वमेव विधीयते ॥' इति श्रीपत्युक्तिः। अथ रखेः संकाशात् यामाई त्यजेत् कतितमं तुर्याद्रिद्विशराष्टरामरसकं तुर्य चतुर्थं रविवारे सोमवारेऽद्रि-सप्तमितं भौमे द्विमितं बुधे शरमितं पंचम जीवे भष्टमितं शुक्रवारे राममितं त्रितयं शनिवारे रसमितं षष्ठम् । इयं वारवेला निषिद्धा पुनः रवेः सकाशात् तिथ्यशो मुहूर्तः । दिनम.नस्य पञ्च- दशमागो मुहूर्तः स कुलिको भवति । घले दिवसे कतिमितः मनूत्क्रम- समः मनुतचतुर्दशतः उत्क्रमेण व्यस्ततया समः समसंख्यः स कुलिको ज्ञेयः ।। रविवारे चतुर्दशो मुद्दतः, सोमवारे द्वादशः, भौमवारे दशमः, बुधवारेऽष्टमः, गुरुवारे षष्ठः, शुक्रवारे तुर्यः, शनिवारे द्वितीयः । निशि रात्रौ निरेकः, रविरात्रौ त्रयोदशः, सोमरात्री चैकादशः, भौमरात्रौ नवमः, बुधरात्रौ सप्तमः, गुरुवात्रौ पंचमः, शुक्ररात्रौ तृतीयः, शनिरात्री प्रथमः, एते कुलिकाः शुभकार्ये निषिद्धाः । तथा चोक्तम्-' मन्वर्कदिवस्तु-