पृष्ठम्:मालविकाग्निमित्रम्.djvu/१४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०२
॥ पञ्चमोङ्कः ॥
राजा । ततस्ततः ।
परिव्राजिका । ततश्च
तूणीरबन्धपरिणध्दभुजान्तरालम्
आकर्णलम्बिशिखिपिच्छकलापधारि ।

   कोदण्डपाणि निनदप्रतिरोधकानाम्

आपातदुष्प्रसहमाविरभूदनीकम् ॥ १० ॥
मालविका । भयं निरूपयति ।
विदूषकः । १मा भआहि । अदिक्कन्तं ख्खु भअवदी कहेदि ।
राजा । ततस्ततः ।

परिव्राजिका । ततो मुहूर्तं बध्दयुध्दास्ते पराङ्मुखोकृतास्तस्करैः

सार्थवाहयोद्धारः।
राजा । भगवति अतः परमिदानीं कष्टं श्रोतव्यम ।
परिव्राजिका । ततः स मत्सोदर्यः
इमां परीप्सुर्दुर्जातेः पराभिभवकातराम् ।

 भर्तृप्रियः प्रियैर्भर्तुरानृण्यमसुभिर्गतः ॥ ११ ॥

प्रथमा । २हंहो गर्दो तादो मरणं ।

१. मा भीः । अतिक्रान्तं खलु भगवती कथयति ।
२. हंहो गतस्तातो मरणम् ।

3. B C D तूणीरवद्ध°; F तणोरपट्ट°.
4. F आपाष्णि.-F 'शिखिवर्ह .
8. B D E भयाहि . – B कहेइ;
A C F कहेहि.
15. F भर्तुः प्रियः
16. F तदो for “तादो.”