पृष्ठम्:महार्थमञ्जरी.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३५
श्रीमन्महेश्वरानन्दविरचिता

भावरसद्वयव्यतिकरकल्पनीयार्थक्रियाकरितया प्रकाशविमर्शस्वरूपमाधुर्यातिशयानुभवनप्रावी ण्यात् योगिनो हृदयमुटेजयति- उत्कृष्य अन्य त्र स्वप्रतियोगिनि पदार्थे प्रवर्तयति, तादृशश्चा यं हृदयेन उपकरणभूतेन लोकस्य देहाक्षभुवना देर्या यात्रा-प्रवाहनीत्या प्रवृत्तिः, सा चिञ्चा स्वादनवत्प्रागनुभूतमाधुर्योत्कर्षापेक्षया रसान्त रम् - अम्लादिसादृश्यादन्यो रसः संपद्यते, यत्र उद्वेजितहृदयस्य योगिनः इच्छाशक्तिरुज्जृम्भते, योगीच्छायाश्च फलप्राप्तिपर्यन्तत्वमविप्रतिपन्नम्। यदुक्तं शिवसूत्रेषु

'चित्तस्थितिवच्छरीरकरणबाह्येषु (३-१९)

इति । क्षीरशर्कराद्यत्यन्तमधुरोपयोगोद्वेजितचे तसां च पुंसां तिन्तिण्याचम्लद्रव्यपदार्थान्तरा भिलाषो लोकप्रसिद्धः । अयं भावः-शरीरोन्द्रि यादिवेद्यविक्षोभव्युदासेन स्वात्ममात्र साक्षात्कार लक्षणं सौख्यमवलम्ब्य उल्लासे बहिर्विभीषिका