महार्थमञ्जरी यत् किथिज्जगति विधा नियमित वस्तु त्रिवर्गात्मक तत् सर्व त्रिपुरेति नाम भगवत्यन्वेति ते तत्वतः ॥” 9 इति श्रीलघुभट्टारकशिया त्रिवर्गसूतमखिलमपि कोडीक्रियते । एवञ्च वेदितैव वेद्य वेद्यमेव वेदिता वित्तिरेव 'वेद्यमियायशेपस्वमात्रै सामरस्या- भ्युपगमस्य पर्यन्ततः सिद्धान्तरहस्यवाहुन्मेवे एव निमेष इत्यादिव्याहति- दोषोद्भावनमस्मसन्चारसरणीसीमनु न कञ्चिदपि कण्टकाङ्कुरमुन्मील- यितुमुबुद्धे इति । तदुक्तं श्रीस्पन्दसन्दोहे – “एवमिवाविभागरूपा परामर्शभूमिरुन्मेषनिमेपमयी उन्मेपनिमेपशव्दाभ्यामभिधीयते” इति । एतेन विमर्शः सर्वसह इत्युक्तं भवति । यदुक्तं श्रीप्रत्यभिज्ञाविमर्शिन्यां - "विमर्शो हि सर्वसह आत्मानमपि परीकरोति, परमप्यात्मीकरोति द्वयम- प्येकीकुरुते, उभयमपि न्यग्भावयति" इति । श्रीपरामते च - - , “परीकर्तुं निजं तत्त्वं स्वात्मीकर्तुं तथोभयम् । एकीकर्तुं न किं कर्तुं विमर्शो जगति क्षमः ॥" इति ॥ ३१ ॥ ननु सर्वेकरसवादस्वीकारे कोऽयं सत्यासत्ययोर्भेद इत्याशङ्कय न कश्चिदित्युदाहरणद्वारोपदर्शयति को सम्भावविसेसो कुसुमादो होइ गअणकुसुनस्स | जं पुरणाणुप्पणो ळोओ फुरणं च सध्वसामवर्ण ॥ ३२ ॥ कः सद्भावविशेषः कुसुमाद् भवति गगनकुटुमस्य । यत् स्फुरणानुमाणो लोकः स्फुरणं च सर्वसामान्यम् || इति । प्रसिद्धकुसुमाद् गगनकुसुमस्य सद्भावे को विशेषः । न कश्चि- दिति वाक्योपसंहारः । यदिति हेतौ । लोको हि विश्वव्यवहारस्वभावः | संविदेव भगवती विषयसत्त्वोपगमे शरणमिति गुरुमतमर्यादया स्फुरणं प्रकाशमानत्वमेवानुप्राणतया जीवभूततया परिगृह्य वर्तत इत्यसकदवो- चाम | तच्च स्फुरणं विप्रतिपन्ने खपुष्पे संप्रतिपञ्चे चम्मकादौ च सामान्य- १. कग. पाठः. २. 'बतासा', ३. 'ष इक. पाठ.. ४. 'णनत' ख. पाठः,
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/९८
दिखावट