पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ इति । पूजारहस्ये च "औन्मुख्यमिच्छा ज्ञानं च क्रियेत्येतचतुष्टयम् । स्पन्दनं देवदेवस्य बोध भैरवरूपिणः || औदासीन्यप्रहाणेन यदौन्मुख्यं महेशितुः । तदिदं स्याज्जगत् सर्वमित्यस्मिन् किन्नु युक्तिभिः ।।” इति ॥ १४ ॥ महार्थमञ्जरी अथ सदाशिवेश्वरौ पर्यालोचयति -- णाणं किअति दोण्ण वि पदमुम्मेसम्मि सइसिवो देवो । वीआए उळे वीओ सो होइ ईसरो णाम ॥ १५ ॥ ज्ञानं क्रियेति द्वयोरपि प्रथमोन्मेषे सदाशिवो देवः । द्वितीयाया उल्लेखे द्वितीयः स भवतीश्वरो नाम ॥ इति । ज्ञानं हि नामाहम्भावोवभासनात्मा सर्वप्राणिनां स्वसंवेदनसिद्धः स्वभावः । क्रिया च करचरणाद्यनुवन्धिनी सर्वसाक्षात्कारयोग्या परि- स्फुरति । तत्र जानामि करोमीत्यादिवज्जानासीत्यादावपि आदर्शवलोक- नादिन्यायादस्मच्छब्दार्थ एव युष्मदाद्यर्थतयावभासते । तथा चैत्रोक्तावेव चैत्रः प्रणमतीत्यादिवदहम्भाव एव व्यवधानोपधानेन प्रथमपुरुषादितया प्रतीयत इत्यहन्तैव सर्वत्रात्मतत्त्वम् । यदुक्तम्- mexing “अस्तिशेषा क्रिया सर्वा कर्तृशेषं च कारकम् । एकशेषं च वचनं पुरुषश्चोत्तमावधिः ॥” १. 'वभा' क. ख. पाठः. इति । अहन्तोलेखश्च ज्ञानशब्दार्थः । एवं करोषि करोतीत्यादावपि करो- मीत्यस्यैव पारमार्थ्यात् क्रियापि ज्ञानवदहम्भावानुप्रविष्टेत्यवधार्यते । केवलमस्या इदम्भावप्राचुर्येणानुभूयमानतया मेदव्यवहारः । एवं च ज्ञानं क्रियेति यौ द्वौ भावौ, तयोर्मध्ये प्रथमस्य ज्ञानस्योद्रेके द्वितीयायाश्चा- थीदस्फुटत्वरूपे न्यग्भावे सति सदाशिवाख्यं तत्त्वमित्याख्यायते, यद-