पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । तस्याह्लादमहार्णवस्य न कथं वर्धेत कूलङ्कषो वाग्विक्षोभविजृम्भया बहुमुखं कल्लोलहल्लोहलः || कावेर्या इव माधुर्य कल्हारस्येव सौरभम् । नटेशस्येव तन्नृत्तमस्य ग्रन्थस्य गौरवम् || विश्वोत्पत्तिविपत्तिभूः स भगवानत्र प्रवक्ता शिव- स्तस्याहं प्रतिशब्दपर्वतगुहा यन्मे न गर्वग्रहः । तद्दोषोऽस्तु गुणोऽपि वा न खलु तत् स्वायत्तमित्थं स्थिते मात्सर्य महतामुदेतु यदि वा वात्सल्यमुज्जृम्भताम् ॥ अधिवासयतु सदा मुखमन्यकथालेपलब्धदौर्गन्ध्यम् । कर्पूरशकल इव मे शिव शिव इति शीतलः शब्दः || इति शिवम् || १. इति श्रीमहाप्रकाशशिध्यस्य गोरक्षापरपर्यायस्य श्रीमन्महेश्वरानन्दस्य कृतिर्महार्थमञ्जरीपरिमलः सम्पूर्णः ॥ २०३ कालचक्रघटीयन्त्र कल्पनामूलशिल्पिने । नमः स्वच्छन्द चिन्मात्र परिचय शम्भवे ॥ पादुकोदयमहार्थमञ्जरीकोमलास्तवपरास्तुतिक्रमैः । स्फारयन् भुवि महार्थसंविदं देशिको विजयते महेश्वरः ॥ जयत्यमूलमम्लानमौत्तरं तत्त्वमद्वयम् । स्पन्दास्पन्द परिस्पन्द मकरन्दमहोत्पलम् || शुभमस्तु । 'थंपद्येत' ख. ग. पाठ: २. 'य' ग. पाठः, ३. 'स्प' क. ख. पाठः