पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता “तदेतत् परमं गुह्यं योगिनीनां मुखे स्थितम् " -- इति स्थित्या गोप्यमर्थतत्त्वं भणामः वैखरीवाक्पर्यन्तं परामृशामः । अन्याभिमुखीकारादुक्तरूपसंरम्भोपन्यासो हि तन्मनसि तादृक्परामर्शार्पणं विना न सङ्गच्छते । अन्यथा वैखर्या वैयर्थ्यप्रसङ्गादित्यामन्त्र्यमाणान् पुरुषविशेषानर्थतत्त्वं किञ्चित् परामर्शयाम इत्युक्तं भवति । तत्र भणित- व्यमर्थमवस्थाप्य मध्ये तदपरिज्ञानोपाधिकमुपद्रवाधिक्यं तत्परिज्ञानप्ररोच- नातात्पर्येणोपपाद्यते – मा भ्रमत गर्भगोळेष्विति । किमिति जननीजठर- गहरान्तर्वासक्लेशमनुभवतानायासेन कस्मिंश्चित् तत्प्रतीकारोपाये विद्यमा नेऽपीति यावत् । मा भ्रमतेति गर्भग हरभ्रमणनिषेधाभिधानेन वक्ष्यमाण स्यार्थस्य तत्प्रतिबन्धपाटवं प्रत्यव्यभिचारो व्यज्यते । गर्भवासो ह्युपद्रवा- नुभूतीनां परा भूमिः । भ्रमणेन च तस्य 'मातापितृसहस्राणी' ति न्याया- दनेककालानुवृत्तत्वमाक्षिप्यते । तच्च जननम् | 'जातस्य हि ध्रुवो मृत्युः ' इति भगवद्गीतानीत्या 'विनाशात्रात उत्पादः' इति श्रीमत्क्षेमराजोत्त्या च मरणानुभूत्यविनाभूतं तदुभयान्तर्भूतं चाखिलमपि दुःखानुभूतिषाहुल्य- मिति जन्ममय्या पीडया सर्वमपि संसारव्यसनमुपसङ्ग्रह्यते । यदाशये- नोक्तं श्रीलघुभट्टारके - - 1 N १८१ "ज्ञात्वेत्थं न पुनः स्पृशन्ति जननीगर्भेऽर्भकत्वं नराः" इति । अथ भणितव्यमेवार्थ भणितुमस्यात्यन्तसुलभ त्वोपपादनद्वारा पी- ठिकां बध्नाति– अत्यासन्नं हृदयमिति | यदिदं षडवोल्लाससमष्टिरूपस्य स्वशरीरस्यानुप्राणनतयावतिष्ठमानमविकल्पावस्थायां तदुत्तीर्णोल्लेख च स- प्रकाशविमर्शद्वितय मेलापलक्षणमन्तस्तत्त्वं हृदयमित्युच्यते । तस्य पर्वता- ग्रनदीतीरादिवन्न कदाचिदनासत्तिशङ्का संभवति, स्वस्वरूपाविभिन्नत्वा- देतदासत्तिं प्रत्यतिशयस्यानुभूयमानत्वात् । तादृशस्य चास्य य उद्योगो यतः कुतश्चिदप्याकारादौदासीन्यापहस्तनस्वभावमुद्यन्तृत्वं तत् परित इच्छाज्ञानक्रियापरिस्पन्दप्रवर्तिताशेषविश्व व्यवहारप्रथापरामर्शपूर्वकमालोच- यत आत्मानुकूल्यादवलोकयध्वम् । यस्मिन्नेकत्रैव साध्ये चतुःस्रोतःप्रव- १. 'रभूमौ नि', २. 'कालवृत्त' क. पाठ:. ३. 'तो' व पाठः. ४. 'चा' क. पाठः.