परिमलोपेता । १७९ सर्वदर्शनसारत्वादमुष्य श्रीमहार्यक्रमस्य सर्वस्रोतोतिशायी कोऽपि श्लाघ्य त्वोत्कर्षो ध्वन्यते । यदुक्तं श्रीमहानयप्रकाशे- “एवंविधं यदधिगन्तुमिहात्मतत्त्वं मिथ्याविकल्पविभवोद्दलनं च सम्यक् । युक्ति महानयमयीं न विहाय शक्यं सर्वोत्तमोत्तमतमो हि ततो महार्थः ।।" इति । अत एवश्चन्यत्राशरणानामेतदेकशरणत्वमत्यन्तदुर्घटघटनप्रागल्भ्यो- द्भटमुद्धाट्यते । यदाहुः "सर्वोपायपरिक्षीणास्ते महार्यार्थिनः किल " इति । “अस्ति नान्या गतिस्तेषां विकल्पग्राससाहसात्" इति च। 'यश्थायमेवंविधार्थमथनप्रगल्भो भगवान्, अत एव सर्वपर्यन्तप्र तिष्ठास्थानरूपो यः कुळेश्वरः, स एव यतः स्वशक्ति निर्मथ्य सृष्ट्यादि- कारी, अत एवंविधं श्रीमन्थानं भैरवं नमामीति संवन्धः' इति श्रीक्रम- केळीक्लृप्त्या स्वेच्छामात्रविजृम्भितविश्वक्षोभतयानुभूयते । तस्य कौळि- केषु तन्त्रेषु भैरव इति प्रायो व्यपदेशो भवति । भीरवः संसारैचकिताः प्राणिनः । तेषामयमभयप्रदायितया संबन्धीति वा, भीः संसारचाकि- त्यं तन्निबन्धनो रवः प्राणिनामाकन्दः तस्य प्रवर्तक इति वा, प्रति- पादितचाकित्यनिवृत्तये मनसि परामृश्यतया वर्तत इति वा, भियं पशु- संबन्धिनीमुद्दिश्य रवणं यच्छ (ब्दं ? ब्दनं ) तत्स्वभावानां माहेश्वर्यादीनां वर्गाधिष्ठात्रीणां स्वामीति वा, लोकसंबन्धिनीं भियं रौति दातव्यतया परा- मृशतीति भीरुमृत्युकालादिरवच्छिन्नो भयङ्करवर्गः तस्यापि भयङ्कर इति वा, भानि नक्षत्रोपलक्षितानि चन्द्रसूर्यादीनि ज्योतींषि तानीरयति प्रेर- यतीति मेरः कालः तं वाययन्ति शोषयन्तीति भेरवाः कालग्रासरसिका महायोगिनः तेषामधिष्ठातेति वा, विश्वं प्रति भरणरमणवैसनानां प्रयोज- यितेति वा भैरव इत्युच्यते । यदुक्तं श्रीक्षेमराजेन - १. 'ळीगुप्या स्वे', २. 'रसहिताः' क. पाठ: ३., ४. 'भै'फ. ग. पाठः, ५० 'बमनां' क. पाठ:.
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१९७
दिखावट