पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महाथेमञ्जरी राभिलाषो लोकप्रसिद्धः । अयं भावः – शरीरेन्द्रियादिवेद्यविक्षोभव्युदा- सेन स्वात्ममात्रसाक्षात्कारलक्षणं सौख्यमवलम्ब्योल्लासो बहिर्विषयविभी- षिकाविक्लषात्मनः परिमितस्य योगिनश्चकित्यप्रकारः । अपरिमितस्य तु पूर्णाहन्तापरामशोत्मकानवच्छिन्नानन्द परिस्पन्दास्वाद संप्रीतात्मनः स्वात्म पक्षनिक्षिप्ताशेषबाह्यप्रपञ्चत्वादिदन्तानुभूत्यवश्यम्भावः । ततश्च विकल्प - सर्वस्वविक्षोभानुभूतिवैचित्र्योत्तरमिदन्तापदावरोहणमप्यनवच्छिन्नाहम्भाव- भासुरे महति प्रमातृपर्वण्येव पर्यवस्थति । यदुक्तं श्रीक्रमसूत्रेषु – 'बा- ह्यादन्तः प्रवेशः अभ्यन्तराद्वा बाह्यस्वरूपानुप्रवेशः' इति । यथा च व्याख्यातं श्रीमत्क्षेमराजेन – 'तत्र च बाह्याद् गृह्यमाणाद् विषयग्रामा- दन्तः परस्यां चितिभूमौ ग्रसनक्रमेणैव प्रवेशः समावेशो भवति, अभ्यन्त - राञ्चितिशक्तिस्वरूपात् साक्षात्कृतात् समावेशसामर्थ्यादेव बाह्यस्वरूप इदन्तादिनिर्देश्ये विषयग्रामे वमनयुक्त्या प्रवेशश्चिद्रसाश्यानतात्मा समा- वेशो जायते' इति । यदभिप्रेत्य श्रीप्रत्यभिज्ञायामुक्तं “विश्वरूपोऽहमिदमित्यखण्डानन्दबृंहितः" इति । यच्चोक्तमस्मद्गुरुभिरानन्दताण्डवविलासस्तोत्रे - "वयं त्विमां विश्वतयावभानं बहिर्मुखस्यास्य तवोन्मुखस्य । स्व संहितं विश्वविलापनोद्यत्स्वतन्त्रतानन्दमयीं मनामः ॥" इति । इदमेव हि तद् योगिनो ज्ञानस्य शुद्धत्वं यदिदन्तोप श्लेषेऽप्यवै- याकुल्यम् । तदुक्तं श्रीचन्द्रज्ञाने - 34 “येन प्रबुद्धभावेन भुञ्जानो विषयान् स्वयम् । न याति पाशवं भावं ज्ञानचन्द्रः स कीर्तितः ॥” इति । किञ्च यद्यदुद्रिक्तमाधुर्योपयोगे तिन्त्रिण्याद्याकाङ्क्षा तदास्वादादेव प्रस्तुतोद्वेजनशान्त्या पुनरपि मधुरद्रव्यस्वीकारसामर्थ्यम्, एवं पूर्णाहन्ता- नुसन्धानादिदन्तोपलम्भावश्यम्भावः । इदन्तानुषङ्गे च तादृगहन्तानुप्रवे- शस्यार्थतः सिद्धिरित्यात्मनश्चककस्थित्या नित्योद्यन्तृत्वं प्रति न कश्चिद् १. 'शवच्छि' क. पाठ:. २. 'ण्डामर्शवूं' क. ख. पाठ:. ३. 'तं-वयं' ख. पाठः १. 'धुर्ययो' क. ख. पाठ:.