पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी तस्योल्लासश्चेत्यचेतयितृत्वादिवैचित्र्येण स्फुरणं, स प्रकृत्या कालविभाग- व्युदासेन निष्कलो हेयोपादेयताद्यशेष विकल्पकल्पनाकलङ्कशून्यो भवति । तमेवंविधमत्यन्तस्पष्टतया प्रत्यक्षीकारचमत्काराकारनिश्चयास्पदं कर्तुं यदी- च्छा युष्माकमुपसन्नानां "श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः” ७ 3 इति श्रीभगवद्गीतास्थित्या काचिद् वाञ्छा विजृम्भते चेत्, तर्ह्ययमत्रोपाय इति वक्ष्यमाणसर्वार्थसाधारणोऽयमन्वयप्रकारः । तत्र यावेतौ सोम- सूर्यौ वेद्यवर्गानुप्राणनत्वादकुलमार्ताण्डाविभिन्नवेदितृस्वभावत्वाच सकारह- कारात्मानौ वर्णविशेषौ तयोरस्त्रं विसर्जनीयम्, आस्थां स्वहृदयसम्पु- टीकारलक्षणमनुस्वारं च यतोरश्नुवानयोर्या मध्यस्था तुटि: विभज्यावस्था- नक्षणलक्षणः कालखण्डः । स उत्रुटितव्यः । माणिक्यमालिन्यादिवदुद्धर्त- व्यः । तदानीं हंस इति विमर्श उत्पद्येतेति यावत् । अयं भावः- - यद्यपि मातृकापाठादौ हमिति से इति चान्यवर्णसाधारण्येनानयोग्रहणमस्ति, तथापि तद् द्वयं स्वहृदयवर्त्यनुत्तराविनाभूतमहं स इति स्वात्मप्रत्यभिज्ञा- नोपायत्वेन हं स इति संश्लेषवशान्महामन्त्रात्मना विभ्रष्टयमिति वैपरी- त्येनोद्धारो मन्त्रस्य B "बहिर्व्यवहरन् लोक्यान् स्थगयन्नूहगोचरान् । चरन् कपटमार्गेण वामं नयमिवोन्नयेत् ।।" इति श्रीलघुबृंहणीमर्यादया गोपनीयताद्योतनार्थं सोऽहमिति मन्त्रान्तरप्र- त्यायनार्थं च । अयं च मन्त्रात्मकवर्णविशेषपरामर्शरूपत्वादाणवः कश्चि- दुपायः । यदुक्तं श्रीमालिनीविजये. "उच्चारकरणध्यान वर्णस्थानप्रकल्पनैः । यो भवेत् स समावेशः सम्यगाणव उच्यते || " इति । एवमुच्चारादावप्यूह्यम् । तत्र प्राणव्यापाररूप उच्चारो यथा- “कुम्भिता रोचता वापि पूरिता वा यदा भवेत् । तदन्ते शान्तनामासौ शान्त्या शान्तः प्रकाशते ।।" ४. 'दौ अहं', ३. 'ल्पकल' क. पाठः २. 'स्थाः', ३. 'यो' ख. पाठः. ५. 'स चा' ग. पाठ.. ६. 'व्य इति' क, ख. पाठः.