महामारी णं अप्पणो पिअत्थं सव्वस्त पिअन्तर्ण भणाइ सुई। ता आणन्दसहाजी अप्पा मुलो अनुसो वा ॥ ५५ ॥ नन्वात्मनः प्रियायें सर्वस्य मियत्वं भवति श्रुतिः | तस्मादानन्दस्वभाव आत्मा बुतोऽसुतो ना || इति । अस्ति खलु 'आत्मनस्तु कामाय सर्व प्रियं भवतीति श्रुतिः, पारमेश्वरपरामर्शरूपतया प्रकृत्यैव प्रमाणभूतत्वात् 'आनन्दो ब्रह्मेति व्य- जानात्' इत्यादिवैलक्षण्येन युक्तिविशेषावबोधकत्वाच्च बाधविधुरमेवार्थ- माचष्टे । यदुतात्मनः स्वस्य यत् प्रियमिच्छोल्लासरूपा प्रीतिस्तामेव प्रयो- जनीकृत्य व्यवहियमाणमखिलमपत्यमित्रादिकं वस्तु प्रीणनतयानुभूयत इति । नन्विति पराभ्युपगमोपपादनार्थः । तस्माद्धेतोः स्वहृदयस्फुरणलक्ष- णस्यात्मनः " पूर्णत्वादहमित्यन्तर्ज्ञानमानन्द उच्यते" इति स्थित्या पूर्णाहन्तानुसन्धानात्मकत्वात्मविश्रान्तिंसतत्त्वो य आनन्दः स एवासाधारणं रूपम् । तादृकुस्वभावत्वे च तस्य मुक्तत्वममुक्तत्वमि- त्यवस्थाद्वयेऽपि न किञ्चित् तारतम्यम् । यदि च तस्यात्मनो नानन्दः स्यात् स्वभावः, तदपत्यकलत्रादयः शमदमादयो वा भावाः तस्य प्रीण - नाः स्युः । नह्यपत्यादयः सहस्रमपि चैतन्यशून्यं किञ्चिदाक्रष्टुं प्रगल्भ- न्ते । चैतन्यस्य च स्वविश्रान्तत्व मेवानन्द इत्युक्तम् । यदा पुनरस्य स्वविश्रान्तिपरामर्श प्रत्यौदासीन्यं, तदानीं दाहच्छेदादिदुःखानुभूतिव्यपदे- शः । वास्तव्या तु दृष्ट्या ताहकूपरामर्शशून्यत्वेऽपि न कदाचिदप्यस्य स्व- विश्रान्त्यभाव इति सर्वदा सुखानुभूतिव्यतिरेकेण न किन्चिद् दुःखमि त्यालोक्यते । नन्वानन्दात्मकत्वे कथं क्रोधादौ पुंसां शस्त्रप्रहारादिक्ले- शानुभूत्यौन्मुख्यमिति चेत् । न । क्षेत्रकलत्राद्यनुरागावेशवैवश्यादेवमु- द्योग इति कश्चिदानन्दाध्यवसाय एव तेषामेतादृग्व्यवहारोपक्रमे निबन्ध- १. 'न्तिव' ख. पाठ:. २. 'वजः । त' क. पाठः ३. 'क' क. पाठः ४. 'कश्चि' ग. पाठ:.
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१६०
दिखावट