१२६ महार्थमञ्जरी हारेऽप्यस्ति पार्थिव लोहलेख्यमित्यादिवत् । तदनुगुणोऽप्यर्थस्त्रिविधम- वतार्यः । त्रैविध्यं च तदालेख्यान्तःकरणसंवित्त्वपर्यायाणां चित्रचित्तचि- त्वानां तन्त्रेणोच्चारणादिति ।। ४८ ॥ ननु यदि स्वात्मैव देवतेति निर्बन्धः, तत् किमस्यै मन्त्रतन्त्रा- दिना प्रपञ्चेनोपक्रियते । स खलु स्वव्यतिरिक्तदेवताभिमुख्यप्रयोजन- तया स्वीक्रियत इत्याशय मन्त्रस्तावदुक्तरूपदेवतानुगुण्येनैव निर्णीयत इत्याह मणणमयी णिअविहवे णिअसङ्कोए भअम्सि ताणमई । कवळिअवीसविअप्पा अणुभूई कावि मन्तसहस्थो ॥ ४९ ॥ मननमयी निजविभवे निजसङ्कोचे भये त्राणमयी । कवलितविश्वविकल्पा अनुभूतिः कॉपि मन्त्रशब्दार्थः || 'मननत्राणधर्माणो मन्त्राः' इति ह्याम्नायः । तत्र मन्त्रानुसन्धातुः खेच्छामात्रेणोपाधिना विभवः सङ्कोच इत्यवस्थाद्वयमस्ति । तयोर्विभवो नाम विश्वतदुत्तरोभयसामरस्ययुक्त्या पूर्णाहम्भावभावनात्मा विकासः, यत् पारमैश्वर्यमित्युच्यते । सङ्कोचश्च तद्विपर्ययादपूर्णत्वाभिमानः, यत् पाशवमित्याख्यायते । अत्र च पूर्वस्य स्वाभाविकत्वमुत्तरस्यारोपितता चे- ति विवेकः । एवं स्थिते तादृश्यात्मनो विकासे समुल्लसति तस्य यन्मनन- मुपर्युपरि तथा परामर्शानुस्यूतिस्वभावश्चमत्कारः तत् प्रकृत्या । तद्वदुक्त- रूपें स्वस्य सङ्कोचे प्रस्तुते ततो यंत् त्राणं, “सङ्कोचो विचार्यमाणः चिदैकात्म्येन प्रथमानत्वाच्चिन्मय एव । अन्यथा तु न किञ्चित्” इति श्रीप्रत्यभिज्ञाहृदयमर्यादया तस्यापि सङ्कोचस्य वैश्वात्म्यप्रथानुप्रविष्ट - तानुसन्धानोत्पादनद्वारा स्वस्वभावभङ्गप्रसङ्गरूपचाकित्यव्यपोहलक्षणं, तन्मयी च भवन्ती तेनैव हेतुद्वयेन वेद्यविक्षोभसर्वस्वग्रासविगृहलोल्लासा 'धा' क. पाठः २. 'तत्रैवोच्चारणमिति' क. ग. पाठः, ३. 'स्या' 'काचिद् म' क. पाठ:. १५. 'भिमननं य’ ग. पाठ: ६० 'तिश्च', ८. पेऽस्य', ९. 'वासास' ऋ. पाठ: १. गे. पाठ:. 'स्मानमु', ७.
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१४४
दिखावट