पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी महाचिदाह्लादचर्वणचातुर्यमात्रसारा: स्वच्छन्दमासत इति । तत्र तैरु- पास्त्युपक्रमे प्रकल्प्यमानः प्राणसंयमो नाम बुभुत्सुभिरित्थमवबोद्धव्यः- यन्निजं सत्त्वम् उक्तरूपबलस्वभावः सद्भावः तस्य विकल्पविक्षोभो· पश्लिष्टतयैव सर्वदानुभूयमानत्वादन्वयमात्रादेव तन्निबन्धनं किञ्चिदलौ- किकमन्तस्तत्त्वमस्तीत्यध्यवसीयते, न पुनर्व्यतिरेकद्वारापि। व्यतिरेकश्च नात्यन्तं व्यपोह्रैकल्पनयोपपद्यते । केवलं सङ्कोचमात्रादुपचर्यते । अतश्च "कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते । तस्मिन् लुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्यते ॥ न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् । तस्य लोपः कदाचित् स्यादन्यस्यानुपलम्भनात् ॥” इति श्रीस्पन्दप्रक्रियया वेद्यावरोहौन्मुख्यशालिनि स्वसामर्थ्य रूपे विभवे कललावस्थयावस्थानात्मकं स्तैमित्यमनुभवत्यपि विश्वोत्तीर्णस्य स्वात्म- परिस्पन्दमयो विमर्शः “विश्वस्यैव विलास मे शरीरं चाश्नुते शिवः । शालामिव विशालां स्वामादर्श च यथा द्विपः ॥” इत्यादिनीत्या दर्पणमण्डलान्तः प्रविष्टगन्धगजेन्द्राद्यनुसन्धानस्थानीयं प र्यालोचनम् । तदुपपादकतया बहिष्ठानां वेद्योल्लासस्वलक्षणानां वृत्तान्तानां भङ्गो भञ्जनं स्तम्भनं प्राणायाम इति । तत्तद्विकल्पविक्षोभव्यतिरेकेऽपि स्वा- त्मस्फुरत्तानुसन्धानोपायः प्राणायाम इति यावत् । यथा श्रीस्वच्छन्दे - “अपसव्येन रेच्येत सव्येनैव तु पूरयेत् । नाडीनां शोधनं ह्येतन्मोक्षमार्गपथस्य तु || रचनात् पूरणाद् रोधात् प्राणायामस्त्रिधा स्मृतः । सामान्यौद् बहिरेते तु पुनश्चाभ्यन्तरे त्रयः ॥ अभ्यन्तरेण रेच्येत पूर्येताभ्यन्तरेण तु । निष्कम्पं कुम्भकं कृत्वा कार्याश्चाभ्यन्तरास्त्रयः ॥” 1. 'इनक' क. पाठ:. २. 'स्ये' क. ख. पाठः, ३. 'न्या ब' क. पाठ: