पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । “अष्टपर्युदितबीजवासनासंहृतिप्रवणरश्मिपुञ्जया । लीढमात्रमुखभेदया त्वया भूयते जननि ! लेलिहानया ||" $ इति । वाच्यवाचकाद्यशेषविकल्पविक्षोभविलापिनी सौषुम्नसरणिसीमोल्ल- चिनी स्वात्मसंविदविभिन्नाकारा च खेचरी । यथा- “त्वं पराप्रभृतिवैखरान्तिमोल्लेखविस्तरविलापनोन्मुखी । देव्यनावरणशम्भुसझगा खेचरी भवसि चिद्विकासिनी ॥ वह्निसूर्यशशिधामघस्मरी कुण्डली तडिदिवोत्पतन्त्यसौ शाम्भवं जननि ! विन्दुमध्वना मध्यमेन च मतासि खेचरी ॥” इति मुद्राविभागः | वर्णाः श्रीमच्छन्दराशिभैरवात्मानः । तत्र ज्ञानसिद्धाः षोडश स्वरमय्यः । मन्त्रसिद्धाः ककारादिमकारान्ता वर्णात्मकाः । मेळापक- सिद्धांश्च घण्डस्वररूपाः । यकारादिहकारान्तस्वभावाः शाक्तसिद्धाः | अकारकलाकाराश्च शाम्भवसिद्धा इति । अकारकलाश्च बिन्दूर्धचन्द्र- निरोधनादस्वभावाः । तत्र बिन्दुरशेषवाचा विभिन्न प्रकाशात्मा चन्द्रा- कृतिरनुस्वारः । किंचिद्वाच्यप्राधान्येशान्तावर्धचन्द्रः, मण्डलस्वभावाद- त्यन्तकौटिल्यव्यपायात् । ततोऽपि वैद्यकौटिल्यव्यपगमाहजुरेखारूपा निरोधिका । यदनया परिमितयोगिनां नादानुप्रवेशः, तद्वदपरिमितयो- गिनां भेददशावेशश्च निरुध्यते । नादश्च स्वपरामर्शपरमार्थ इत्यकारकला- रहस्यम् । श्रीपञ्चपिण्डनाथस्था: अकारादयश्च वर्णा ज्ञानसिद्धादीनां क्रमाद् भवन्ति । किञ्च ज्ञानसिद्धादयः क्रमाद् अकारकलामय्यः । शाम्भव्यस्तु तत्समष्टिरूपाः । यदस्माभिरकारस्य पञ्चपिण्डस्य च द्वयोरैकात्म्यमेवाङ्गीक्रियते । यदुक्तं श्रीमहानयप्रकाशे = www.c , "अवर्णपञ्चपिण्डार्ण रूपयोरद्वयी गतिः । यतस्तस्मादुच्यतेऽलं देवीनां तद्भुतं वपुः ॥" १. 'को' क ग. 'याभि' ग. पाठ:. पाठः. २. 'य' क. ख. पाठा. ५० 'न्यः' क. ख पाठः ३. 'द्वाः ष',