पृष्ठम्:मयमतम् TG Sastri 1919.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७५
पञ्चदशोऽध्यायः ।।

अधिष्ठानोत्तरान्तस्थो झषालस्तम्भ उच्यते ।
तयासादर्कभागा(द्यु?द्य) षड्भागोनाअविरतरः ॥ ११ ॥
मूलभूस्तम्भतुङ्गस्य द्वादशाद्याः षडश(नु?यु)क् ।
ऊध्र्वोवैस्तम्भतुङ्ग स्यादेवं तद्विस्तरक्रमः ॥ १२ ॥
अग्राकारं युगात्रं तु कुम्भमण्डिसमन्वितम् ।।
ब्रह्मकान्तं तदष्टा विष्णुकान्तमिहोच्यते ॥ १३ ॥
षडश्रमिन्द्रकान्तं स्यात् सौम्यं तत् पोडशाश्रकम् ।
कणमात्रेण तन्मूले चतुरश्रमितोव(रः ? तः) । १४ ।।
अष्टाग्रं वा हिरष्टाश्रवृत्तं पूर्वाश्रमीरितम् ।
कुम्भमण्डियुतं वापि रुद्रकान्तं सुवृत्तकम् ॥ १५ ॥
विस्तारद्विगुणं मध्येऽष्टाश्रयुक्तं युगाश्रकम् ।।
वियुक्तं कुम्भमण्डिभ्यां मध्येऽष्टाग्रं तदुच्यते ॥ १६॥
चतुरष्टाश्रवृत्ताभं रुद्रच्छन्दसमांशतः ।
दण्डाध्यधै हिदण्डेनोत्तुङ्गद्विगुणविस्तृतम् ॥ १७।।
पद्मासनं तु कर्तव्यं मूले पद्मासनं भवेत् ।
यथेष्टाकृतिसंयुक्तमूर्खतो वा समण्डितम् ।। १८ ।।
चक्रवाकाकृतिव्याप्तं मूले पद्मासनान्वितम् ।
सभद्रं मध्यभागे तु भद्रकं तद् हिमण्डितम् ॥ १९ ॥
व्यालेभसिंहभूतादिमण्डितं यत्तु मूलतः।
यथेष्टाकृतिसंयुक्तं तत्तन्नाम्ना समीरितम् ॥ २० ॥
आत्तमेव तदायामे शुण्डुभेदसमन्वितम् ।
युक्तं तत् कुम्भमण्डिभ्यां शुण्डुपादमिति स्मृतम् ॥