पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८१ त्रयस्त्रिंशोऽध्यायः । पूजाभागे सर्वतोभद्रलिङ्गे धारालिङ्गं पञ्चपञ्चक्रमेण। एकैकस्थामष्टमं चोपरिष्टात् साहस्रं तदेखया लिङ्गमुक्तम् ॥ रसमुनिवसुभागे वृत्सकेऽष्टाश्रकेंऽशे । परिधिरथ नवांशे लिङ्गतुङ्गे तु भूयः। त्रिभिरथ गुणभागैश्च त्रिभिस्तुङ्गमानं ह्यजहरिहरभागे तत्तु त्रैराशिकं स्यात् ॥ ८४॥ सस्थूलमूललिङ्ग क्षयमध्यं वै पिपीलिकामध्यम् । लिङ्गं तु शिरःस्थूलं ह्या लिङ्गं चतुर्भेदम् ॥ ८५ ॥ निजविपुलाष्टांशनं मूलं मध्ये तथा तदने च । विष्ण्वजभागौ सम्यक् चतुरथ चार्षके लिङ्गे।। ८६ ॥ लिङ्गं फलकाकारं द्व्यश्रं पञ्चाश्रकं त्रिकोणं च । एकादशनवषट्सप्ताश्रं च द्वादशाभं च ॥ ८७ ॥ पूर्वोदितेतराधे शूलाग्रं शृङ्गसदृशशिरः। अन्यदपि भेदयुक्तं सशिरः सूत्रेतरन्नमानयुतम् (2)॥८८ ॥ निम्नोन्नतझर्झरकं वैवर्ण्ययुतं च पूजानिम्नोन्नतं यथा (2)। वक्रमवक्रयुतं वा वालुकरेखाकलङ्कबिन्दुयुतम् ।। ८९ ॥ अथवैकरेखमेतान्युदितान्येव स्वयम्भुलिङ्गानि । नैवैतेषां मूलं लिङ्गानां शोधयेन्मतिमान् ॥१०॥ अज्ञानादपि मोहात् संशोध्य मूलमेव दोषकरम् । आस्थापनमथो लिङ्गं पूजाभागं तु पीठसमम् ॥ ९१ ॥ वृत्तं वाथ सधारं पूजाभागं तु मोक्षदं यमिनाम् । लिङ्गलक्षणं समाप्तम् । ALL 296