पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयस्त्रिंशोऽध्यायः । तुङ्ग नवगुणं कृत्वा सप्तभिः क्षपयेत् ततः । शेष सूर्यादिवारं स्यात् क्रूरास्तत्र विवर्जिताः ॥ ६३ ॥ ग्रामादीनां च कर्तुश्च नक्षत्रेणाविरोधि यत् । तल्लिङ्गं देशदेशेशदेहिनां शुभकारणम् ॥ ६४ ॥ इष्टायामविशालेन चतुरश्रीकृतं समम् । जातरूपं तु तद् बिम्बं छेदनीयमथोचितम् ॥६५॥ छन्दमष्टाश्रकं षोडशाथ नाम्ना विकल्पकम् । वृत्तमाभासकं लिङ्गं तच्छेद्यं स्यात् त्रयात्मकम् ॥ ६६ ॥ त्रिधा कृत्वायतं मूले ब्रह्मांशं चतुरश्रकम् । अष्टाध वैष्णवं मध्ये वृद्धमूर्छाशमीश्वरम् ॥ ६७ ॥ इष्टविष्कम्भमानेन चतुरश्रीकृतं समम् । कर्णायतङ्क्ष कर्णाभ्यामिष्टमष्टाश्रकं कृतर ॥ ६८ ॥ चतुस्त्रयशकयोर्मध्य मध्यपट्टमिति स्मृतम् । व्यासे पट्टांशके व्यंशे मध्यपढें त्रिधादितम् ॥ ६९ ॥ कोणान्तात् पट्टसूत्रेऽङ्के तिर्यक्सङ्गतसूत्रकम् । पट्टार्धेनाङ्कितं यत्तु षोडशाश्रं तदुच्यते ॥ ७० ॥ एवमश्रान्तरे धीमान् योजयेत्तु विचक्षणः । कोटिच्छेदेन वृत्तं स्यान्निम्नं नैवोन्नतं यथा ॥ ७१ ॥ आद्यं तु सर्वतोभद्रं द्वितीयं वर्धमानकम् । शिवाधिकं तृतीयं स्याच्चतुर्थ स्वस्तिकं भवेत् ॥ ७२ ॥ अथ जगदमराणां सर्वतोभद्रमिष्टं । सुखदमवनिपानां वृद्धिदं वर्धमानम् । 294