पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७७ त्रयस्त्रिंशोऽध्यायः । भवन्ति नव लिङ्गानि तयोर्मध्येऽष्टभाजिते । श्रेष्ठमध्यकनिष्ठानि त्रित्रिभेदानि तानि हि ॥ ४१ ॥ नागरे नागरस्योक्तं मानं लिङ्गस्य मन्दिरे । विकारांशे तदायामे भूतगङ्गाग्निविस्तरम् ॥ ४२ ॥ जयदं पौष्टकं सार्वकामिकं नागरे विदुः। गर्भे त्रिसप्तभागे तु दशांशं द्राविडेऽधमम् ॥४३॥ त्रयोदशांशकं श्रेष्ठं गर्भेऽष्टांशे तु पूर्ववत् । त्रिःसप्तांशे निजायामे षट्पञ्चचतुरंशकम् ॥ ४४ ॥ जयदादिविशालं तत् पूर्ववद् द्राविडे मतम् । वेसरे पञ्चपञ्चांशे गर्भागारे विमानके ॥ ४५ ॥ त्रयोदशांशकं हीनं श्रेष्ठं स्यात् षोडशांशकम् । तयोर्मध्येऽष्टभागे तु नव लिङ्गानि पूर्ववत् ॥ ४६ ॥ पञ्चपञ्चांशके दैये वसुधातुरसांशके । वेसरस्योदितं व्यासं पूर्ववज्जयदादिकम् ॥ ४७ ।। विकारपरिधी भूतव्यासः सर्वत्र कीर्तितः । गर्भमानमिदं प्रोक्तं हस्तमानं तु वच्म्यहम् ॥ ४८ ।। आरभ्यैककरं नन्दहस्तान्तं षट्पडङ्गुलैः । वृध्यायतास्त्रयस्त्रिशत्सङ्ख्या लिङ्गस्य कीर्तिताः ॥ ४९ ॥ पञ्चारनिविमानाद्या द्वादशक्ष्माद्यसद्मनः। क्रमेणैव त्रयस्त्रिशत्सङ्ख्या तासां विधीयते ॥५०॥ केचित् व्यङ्गुलवृद्ध्या तु वदन्त्येकादिहस्ततः । आयादिसम्पदामर्थ मानादेकाङ्गुलक्षयात् ।। ५१ ॥ 292