पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनत्रिंशोऽध्यायः । २४९ मयूरवानरादीनामालयं शुकपञ्जरम् । चित्रं गोयुग्मगोवत्सपानधान्यधनालयम् ॥ १९१३ ॥ वस्त्ररत्नायुधद्यूतकान्तावरणालयम् । दानभोजनशाला-च यागशाला सदक्षिणा ॥ १९२३ ।। दक्षिणं पञ्जरावासं यथास्थानं प्रयोजयेत् । उद्याने चापि वास्थाने स्थानमण्डपमिष्यते ॥ १९३३ ॥ कूटागारं तु वा वृत्तशालायां वृषभस्य तु ॥ १९४ ॥ उत्तुङ्गकुड्या नृपमन्त्रशाला पूर्वापरव्यामयुता मनोज्ञा । सभा च वा चावृतकुड्यहीना- तिदूरतः प्रेक्षणकर्मयोग्या ॥ १९५ ॥ कूटाकारं तु वा तरिंमस्ततः पश्चिमतो दिशि । राज्ञां सिंहासनं युक्त्या प्राङ्मुखं कल्पिते यथा ॥१९६॥ . तत्पूर्वदक्षिणे भागे मन्त्रिणां चासनं भवेत् । दूतस्य प्रागुदग्भागे प्रशस्तासनमुत्तरे ॥ १९७॥ सेनापतेस्तदक्षिण्ये सर्व नालिसमान्तरम् । पञ्चान्देकाङ्गलीकामनोज्ञामन्त्रनलिनका(?) ॥ १९८ ॥ मन्त्रेणैकेन सुषिरा मुकुलाग्रहयान्विता । व्यासायामे तु पञ्चांशषडंशैकांशयंशकैः ॥ १९९ ॥ मध्येङ्गणं तदावृत्तं स्तनमात्रोच्चभित्तिकम् । वृत्तोपलं तु तन्मध्ये प्रागुदग्जलपात्रकम् ॥ २०० ॥ केशक्षालनपर्यत तदक्षिणगतं भवेत् । III 264