मुष्कायामविशालं तु त्रिद्विमात्रं यथाक्रमम् ।
शेफायामं त्रिमात्रं स्यादुदरादङ्गुलं घनम् ॥ १२६ ॥
ऊरुमूलविशालं तु चतुरङ्गलमग्रतः ।
जङ्घाने तु द्विमानं स्याच्छेषं युक्तिवशान्नयेत् ॥ १२७ ॥
स्थितं वा शयितं वापि यथा योग्यं तथाचरेत् ।
सुधालोहैः (फलै?परै)व्यैर्यथा योग्यं तथा चरेत् ॥ ४२८॥
धनं वाप्यधनं वापि लोहजं युक्तितो नयेत् ।
सकलस्य तु यन्मानं तन्मानं वृषभोदयम् ॥१२९ ॥
किाञ्चन्न्यूनीधिकं कार्य सर्वदोषसमुद्भवम् ।
तस्मात् परिहरेद् विद्वान् सर्वलक्षणसंयुतम् ॥ १३० ॥
द्वारलिङ्गसमं वृषभं वरं
मध्यमं चतुरंशविहीनकम् ।
द्वित्रिभागसमोदयमीरितं ।
कन्यसं त्रिविधं मुनिभिर्वरैः ॥ १३१॥
|
इति मयमते वस्तुशास्त्रे सन्धिकर्मविधानो नाम
अधुना गोपुराणां तु लक्षणं वक्ष्यते क्रमात् ।
क्षुद्राल्पमध्यमुख्यानां हाणां स्वप्रमाणतः ॥ १ ॥
मूलप्रासादविस्तारे सप्ताष्टनवभागिके ।
दशैकादशभागे तु तत्तदेकांशहीनकम् ॥ २॥
|