पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निवेदना | मयनाम्रा मुनिना विरचितमिदं मयमतं नाम प्रसिद्धं शिल्पशास्त्रं शिल्पसम्बद्धान् बहुरूपान् विषयान् वितत्य प्रतिपादयति । अर्वाचीनैः शिल्पनिबन्धनकृद्भिः प्रमाणतयानुसंहितत्वादिदमुपलभ्यमानेषु शिल्पग्रन्थेषु स्थविरमित्यवसातुं शक्यम् | अस्य द्रमिलभाषानुवादोऽपि कश्चित् प्रा- चीनोऽस्मत्सकाशेऽस्ति, यमचिरादस्य द्वितीयभागात्मना प्रकाशयितुम- मिलषामः । अत्राध्यायाश्चतुस्त्रिंशत् प्रकाशिताः, तदुपर्यपि चतुर्भिरघ्यायैः शेषैर्भाव्यमिति प्रथमाध्यायदत्तविषयानुक्रमपर्यालोचनया प्रतीयते । सम्पा- दितौ च तत्रादिमौ द्वावध्यायौ, किन्तु परमाशुद्धत्वादन तौ न यो- जितौ । अस्य ग्रन्थस्य संशोधनायोपात्ता आदर्श ग्रन्थास्तावदिमे १. राजकीयग्रन्थशालीयो द्रमिलभाषानुवादसनाथः केरलीयलि- पिस्तालपत्रात्मकः ३४ तमाध्यायान्तः, अष्टाविंशतित- मादिद्वात्रिंशान्ताध्यायविकलः क. संज्ञः. आरक्कल् - केशवकृष्णसम्बन्धी तालपत्रात्मकः केरललिपि- स्त्रयोदशाध्यायान्तः ख. संज्ञः. ग. संज्ञस्तु पुरातनवस्तुविचारकार्यालयाध्यक्षगोपीनाथराय- यद्रताः महाशयसम्बन्धी षड्विंशाध्यायैकदेशान्तः, पाठभेदाः परिशिष्टतया एतत्पुस्तकस्यान्ते निवेशिताः. चेन्नपुरस्थराजकीयग्रन्थशालीयादादर्शात् तदध्यक्षसाह्येन २. ३. ४. प्रतिरूप्यानायितोऽष्टाविंशतितमादिद्वात्रिंशान्ताध्यायप ञ्चकात्मको घ. संज्ञः. अनन्तशयनम्, ३-११-१०९४. / त. गणपतिशास्त्री. 12