पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/११४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९६
काव्यमाला ।

बाह्येन्द्रियाणां वैकल्यं निद्रादुःखश्रमादिभिः ।
अत्राङ्गभङ्गस्वप्नाक्षिमीलनोज्जृम्भणादयः ॥
स्वप्ने दृष्ट्वा प्रियं बाहू प्रसारयति सा मुधा ।
ग्रहदुःखसुखावेशोऽपस्मारस्तु भयादिजः।
कम्पस्वेदमहीपातलालाफेनोद्गमादयः ॥
कान्तानङ्गग्रहाविष्टमानसा मत्तकाशिनी ।
प्रम्लायति प्रलपति शेते शुष्यति लुण्ठति ॥ २५ ॥
विबोधश्चेतनावाप्तिर्निद्राछेदादिभिर्मता ।
अत्रानुभावा जृम्भाक्षिमर्दनादय ईरिताः ॥
चिरादुत्स्वप्नता याता विद्धेवोन्मीलति क्षणम् ।
परगर्वशमाकाङ्क्षामर्षः स्यादवमानभूः ।
अत्र स्वेदशिरःकम्पनयनारुणतादयः ॥
याहि याहि प्रिया यत्र कदर्थयसि किं वृथा ॥ २६ ॥
निद्रामुखादिभिः सुप्तिरन्तरिन्द्रियमीलनम् ।
अत्राक्षिमीलनश्वासोच्छ्वासाद्या अनुभावकाः ॥
चिरं निद्राति निश्चिन्तं त्वदाश्लेषसुखादियम् ।
आकारगोपनं चावहित्थं लज्जादिसंभवम् ।
अन्यथाकरणप्रेक्षाकथनाच्छादनादयः ॥
शुकचञ्चूक्षतं बिम्बं पश्यात्रेति सखीवचः ।
स्वाधरं गोपयामास श्रुत्वा चैलेन राधिका ॥ २७ ॥
विना विचारमाचार उन्मादः शोकहर्षजः ।
अत्रानुभावाश्च वृथाहासरोदनपूर्वकाः ॥
आगतेयं प्रियतमेत्यालिङ्गति लतामसौ ।
विमृश्य युक्तिभिः शश्वदर्थनिर्धारणं मतिः ॥
अत्रानुभावा भ्रूक्षेपकरचालनपूर्वकाः ॥
न राजीवं निशोन्निद्रमकलङ्की न चन्द्रमाः ।
किं भवेत्तर्हि तादृश्याः सर्वथा राधिकाननम् ॥ २८ ॥