पृष्ठम्:मनोहरकाव्यमाला.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ७४ ) जीवेच्चिरं वज्रधारस्य पश्चा- च्छचीं प्रधृष्याप्रतिरूपरूपाम् । न मादृशीं राक्षस धर्षयित्वा पीतामृतस्यापि तवास्ति मोक्षः ॥४८॥ सीताहरणम् । सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् । हस्ते हस्तं समाहन्य चकार सुमहद्वपुः ॥ १॥ स मैथिलीं पुनर्वाक्यं बभाषे वाक्यकोविदः । नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ ॥ २ ॥ उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः । आपिवेयं समुद्रं च मृत्यु हन्यां रणे स्थितः ॥ ३॥ अर्कं तुद्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम् । कामरूपेण उन्मत्ते पश्य मां कामरूपिणम् ॥ ४॥ एवमुक्तवतस्तस्य रावणस्य शिखिप्रभे । क्रद्धस्य हरिपर्यन्ते रक्ने नेत्रे बभूवतुः ॥ ५ ॥ सद्यः सौम्यं परित्यज्य तीक्ष्णरूपं स रावणः । स्व रूपं कालरूपाभं भेजे वैश्रवणानुजः ॥६॥ संरक्लनयनः श्रीमांस्तप्तकाञ्चनभूषणः । क्रोधेन महताविष्टो नीलजीमूतसंनिभः ॥ ७॥ दशास्यो विंशतिभुजो बभूव क्षणदाचरः । स परिव्राजकच्छद्म महाकायो विहाय तत् ॥ ८॥ प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः । रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम् ॥ ६ ॥ स तामसितकेशान्तां भास्करस्य प्रभामिव । वसनाभरणोपेतां मैथिली रावणोऽब्रवीत् ॥ १०॥