पृष्ठम्:मनोहरकाव्यमाला.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(४५) 1 फलानि मूलानि च भक्षयन्वने गिरींश्च पश्यन्सरितः सरांसि च । वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः ॥ ७० ॥ एवं स राजा व्यसनाभिपन्न- स्तापेन दुःखेन च पीड्यमानः । प्रालिङ्गय पुत्रं सुविनष्टसंत्रो भूमिं गतो नैव चिचष्ट किंचित् ।। ७१ ॥ देव्यः समस्ता रुरुदुः समेता- स्तां वर्जयित्वा नरदेवपत्नीम् । रुदन्सुमन्त्रोऽपि जगाम मू. हाहाकृतं तत्र बभूव सर्वम् ॥ ७२ ॥ सबाष्पं निःश्वस्य राजा जगादेदं पुनर्वचः । सूत रत्नसुसंपूर्णा चतुर्विधवला चमूः ॥ राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ॥ ७३ ॥ ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः। तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय ॥ ७४ ॥ प्रायुधानि च मुख्यानि नागराः शकटानि च । अनुगच्छन्तु काकुत्स्थं व्याधाश्चारण्यकोविदाः ॥ ७५ ॥ धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः । तौ राममनुगच्छेतां वसन्तं निर्जने वने ॥ ७६ ॥ यजन्पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः । ऋषिभिश्चापि संगम्य प्रवत्स्यति सुखं वने ॥ ७७॥ भरतश्च महाबाहुरयोध्यां पालयिष्यति । सर्वकामैः पुनः श्रीमान्रामः संसाध्यतामिति ॥ ७८ ।।