पृष्ठम्:मनोहरकाव्यमाला.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २३ ) अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् । अमृतोत्पादने दैत्यान्घ्नतो वज्रधरस्य यत् ॥ ३६ ॥ अदितिर्मङ्गलं प्रादात्तत्ते भवतु मङ्गलम् । त्रिविक्रमान्प्रक्रमतो विष्णोरतुलतेजसः ॥ ४० ॥ यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम् । ऋषयः सागरा द्वीपा वेदा लोका दिशश्च ताः ॥४१॥ मङ्गलानि महावाहो दिशन्तु शुभमङ्गलम् । इति पुत्रस्य शेषाश्च कृत्वा शिरसि भामिनी ॥४२॥ गन्धैश्चापि समालभ्य राममायतलोचना । ओषधीं च सुसिद्धार्थ विशल्यकरणी शुभाम् ॥ ४३ ॥ चकार रक्षां कौसल्या मन्त्रैरभिजजाप च । उवाचापि प्रहृष्टव सा दुःखवशवर्तिनी ॥४४॥ वाङ्मात्रेण न भावेन वाचा संसजमानया । प्रानम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी ॥ ४५ ॥ अवदत्पुत्रमिष्टार्थों गच्छ राम यथासुखम् । अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम् ॥ ४६ ॥ पश्यामि त्वां सुखं वत्स संघितं राजवर्त्मसु । भद्रासनगतं राम वनवासादिहागतम् ॥ द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः॥४७॥ मङ्गलैरुपसंपन्नो पनवासादिहागतः । वध्वाश्च मम नित्यं त्वं कामान्संवर्ध याहि भोः ॥४८॥ मार्चिता देवगणाः शिवादयो महर्षयो भूतगणाः सुरोरगाः। अभिप्रयातस्य वनं चिराय ते हितानि काङ्क्षन्तु दिशश्च राघव ॥४६॥