पृष्ठम्:मनोहरकाव्यमाला.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १८ ) अयं तु मामात्मभवस्तवादर्शनमारुतः । विलापदुःखसमिधो रुदिताश्रुहुताहुतिः ॥ ११८ ॥ चिन्तावाष्पमहाधूमस्तवागमनचिन्तजः। कर्शयित्वाधिकं पुत्र निःश्वासायासंसभवः ॥ ११६ ॥ त्वया विहीनामिह मां शोकाग्निरतुलो महान् । प्रधक्ष्यति यथा कदयं चित्रभानुर्हिमात्यये ॥ १२० ॥ कथं हि धेनुः स्वं वत्सं गच्छन्तमनुगच्छति । अहं त्वानुगमिष्यामि यत्र वत्स गमिष्यसि ॥ १२१ ॥ यथा निगदितं मात्रा तद्वाक्यं पुरुषर्षभः । श्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ १२२ ॥ कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते । भवत्या च परित्यक्तो न नूनं वर्तयिष्यति ॥ ११३ ॥ भर्तुः पुनः परित्यागो नृशंसः केवलं स्त्रियाः। स भवत्या न कर्तव्यो मनसापि विगर्हितः॥ १२४ ॥ यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः । शुश्रूषा क्रियतां तावत्स हि धर्मः सनातनः ॥ १२५ ।। एवमुक्ता तु रामेण कौसल्या शुभदर्शना। तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम् ॥ १२६ ॥ एवमुक्तस्तु वचनं रामो धर्मभृतां वरः। भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ १२७ ॥ मया चैव भवत्या च कर्तव्यं वचनं पितुः । राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः ॥ १२८ ॥ इमानि तु महारण्ये विहृत्य नव पञ्च च । वर्षाणि परमप्रीत्या स्थास्यामि वचने तव । १२६॥ एवमुक्ता प्रियं पुत्रं वाष्पपूर्णानना तदा । उवाच परमार्ता तु कौसल्या सुतवत्सला ॥ १३०॥