पृष्ठम्:मनोहरकाव्यमाला.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २०८ ) नारद उवाच- स्थिरा वुद्धिर्नरश्रेष्ठ सावित्र्या दुहितुस्तव । नैषा वारयितुं शक्या धर्मादस्मात्कथंचन ॥ ४६ ॥ नान्यस्मिन्पुरुषे सन्ति ये सत्यवति वै गुणाः । प्रदानमेव तस्मान्मे रोचते दुहितुस्त्व ॥ ४७ ॥

राजोवाच- अविचाल्यमेतदुक्तं तथ्यं च भवता वचः । करिष्याम्येतदेवं च गुरुर्हि भगवान्मम ॥ ४८ ॥

नारद उवाच- अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव । साधयिष्याम्यहं तावत्सर्वेषां भद्रमस्तु वः ॥ ४९ ॥ एवमुक्त्वा खमुत्पत्य नारदस्त्रिदिवं गतः । राजाऽपि दुहितुः सज्जं वैवाहिकमकारयत् ॥ ५० ॥ अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन् । समानिन्ये च तत्सर्वं भाण्डं वैवाहिकं नृपः ॥ ५१ ॥ ततो वृद्धान्द्विजान्सर्वानृत्विक्सभ्यपुरोहितान् । समाहूय दिने पुण्ये प्रययौ सह कन्यया ॥ ५२ ॥ मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः । पद्भ्यामेव द्विजैः सार्धें राजर्षिस्तमुपागमत् ॥ ५३ ॥ स राजा तस्य राजर्षेः कृत्वा पूजां यथाऽर्हतः । वाचा सुनियतो भूत्वा चकारात्मनिवेदनम् ॥ ५४ ॥ सावित्री नाम राजर्षे कन्येयं मम शोभना । तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे ॥ ५५ ॥

द्युमत्सेन उवाच- च्युताः स्म राज्याद्वनवासमाश्रिता- श्चराम धर्मं नियतास्तपस्विनः ।