पृष्ठम्:मनोहरकाव्यमाला.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २०६ ) अश्वपतिरुवाच- कार्येण खल्वनेनैव प्रेषिताद्यैव चागता । एतस्याः शृणु देवर्षे भर्तारं योऽनयावृतः ॥ २६ ॥

सावित्र्युवाच- आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः । द्युमत्सेन इति ख्यातः पश्चाच्चान्धोबभूव ह ॥ २७ ॥ विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः । सामीप्येन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा ॥ २८ ॥ स बालवत्सया सार्धं भार्यया प्रस्थितो वनम् । महारण्यं गतश्चापि तपस्तेपे महाव्रतः ॥ २९ ॥ तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने । सत्यवाननुरूपो मे भर्तोति मनसा वृतः ॥ ३० ॥

नारद उवाच- अहो बत महत्पापं सावित्र्या नृपते कृतम् । अजानन्त्या यदनया गुणवान्सत्यवान्वृतः ॥ ३१ ॥ सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते । तथाऽस्य ब्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति ॥ ३२ ॥

राजोवाच- अपीदानीं स तेजस्वी बुद्धिमान्वा नृपात्मजः । क्षमावानपि वा शूरः सत्यवान्पितृवत्सलः ॥ ३३ ॥

नारद उवाच- विवस्वानिव तेजस्वी बृहस्पतिसमोमतौ । महेन्द्र इव वरिश्च वसुधेव क्षमान्वितः ॥ ३४ ॥

राजोवाच- अपि राजात्मजो दाता ब्रह्मण्यश्चापि सत्यवान् । रूपवानप्युदारो वाऽप्यथवा प्रियदर्शनः ॥ ३५ ॥