पृष्ठम्:मनोहरकाव्यमाला.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १६९ )

इत्युक्त्वा गौतमो ब्रह्मन् सान्त्वयित्वा शकुन्तलाम् ।
स्वगृहायैव तां नेतुं विमनामुपचक्रमे ॥ ३० ॥
सा चापि मुक्तकण्ठं वै रुदती मृगलोचना ।
शनैः शनैर्गौतमं तमनुगन्तुं प्रचक्रमे ॥ ३१ ॥
एतस्मिन्नन्तरे विप्र मेनकाप्सरसां वरा ।
तेजोरूपा व्योममध्यात्तडित्पातं पपात सा ॥ ३२ ॥
किमिदं किमिदं चित्रमिति जल्पत्सु सर्वतः।
सभास्थेषु च सर्वेषु तेजसा धर्षितेषु च ॥ ३३ ॥
आलोकनेऽप्यशक्तेषु दुष्यन्ते भयविह्वले ।
शकुन्तलां समादाय अङ्कमारोप्य सत्त्वरम् ।
अम्बरं विजगाहे सा तत्केनापि न लक्षितम् ॥ ३४ ॥
एवं गते तु दुष्यन्तः खेदमाप ततो भृशम् ।
देवेन रचितां मायाममन्यत तदा नृपः ॥ ३५ ॥


दुष्यन्त-विलापः।

शेष उवाच-

एकदा स महीपालो मन्त्रिभिर्ब्राह्मणैः सह ।
प्रजानां वेदितुं वृत्तं बभ्राम नगरे द्विज ॥ १ ॥
तत्र राजभटः कश्चिद् दृढमाबध्य धीवरम् ।
दण्डेन ताडयन्नुग्रैर्वचोभिः समतर्जयत् ॥ २ ॥
राजाभरणमेतद्वै यत्त्वया चोरितं छलात् ।
अतो बध्यत्वमापन्नं त्वां नयामि नृपान्तिके ॥ ३ ॥
इत्युक्त्वा तं करे गृह्य ताडयन् बहु मूर्धनि ।
राजान्तिकमुपानीय राजानमिदमब्रवीत् ॥ ४ ॥
एष धीवरको राजंश्चोरयित्वाङ्गुरीयकम् ।
त्वन्नामचिन्हितं लोके विदितं रत्ननिर्मितम् ।