पृष्ठम्:मनोहरकाव्यमाला.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १५० ) स्वानुरूपघटैः कनविन्यस्तैः सरसः पयः । श्राहृत्य सिञ्चतीर्वाला वन्यानाश्रमपादपान् ॥१२॥ तासां मध्येऽतिरम्याङ्गी कन्या नाम्ना शकुन्तला । राजानं प्रेक्ष्य सुस्निग्धमुवाच वचनं द्विज ! ॥१३॥ त्वमद्यातिथिरायातः सत्कृतो यास्यसि ध्रुवम् । इदमासनमेतत्ते पाद्यमर्ध्यं च गृह्यताम् ॥१४॥ तद्वागमृतसन्तुष्टो गृहीत्वातिथिसक्रियाम् । मदनाशुगसंपातकिश्चित्स्पृष्टमनोरथः ॥१५॥ उवाच राजा दुष्यन्तः कासि कस्यासि भामिनि । पश्यामि त्वां वरारोहे देवीमिव दिवश्च्युताम् ॥१६॥ राजन्योऽहं पुरुकुले दुष्यन्तो नाम भूपतिः । तच्छ्रुत्वा सा सखीं प्राह कथयस्व ममोद्भवम् ॥१७॥ सख्युवाच- राजन्यो गाधितनयो विश्वामित्रो महामनाः । वसिष्ठेन जितो युद्धे ब्रह्मण्येन बलीयसा ॥१८॥ गर्हयन् क्षत्रियवलं ब्रह्मण्यं बहु मानयन् । ब्रह्मण्यार्थी तपस्तेपे बहुवर्षसहस्रकम् ॥१६॥ तद् दृष्ट्वा भयमापनः शक्रः संमन्त्र्य दैवतैः । मेनका प्रेषयामास तपो विघ्नाय पार्थिव ॥२०॥ सागत्य पुरतस्तस्य स्वर्गाभरणभूषिता । प्रलोभयामास मुनि विश्वामित्रं स्वविभ्रमैः ॥२१॥ जितेन्द्रियोऽपि कामेन तदपाङ्गधनुश्च्युतैः । कटाक्षबाण राजेन्द्र विव्यथे गाधिनन्दनः ॥ २२ ॥ धैर्यच्युतोऽथ बाहुभ्यामाश्लिपन्मेनकां मुहुः । रेमे च मदनाविष्टः क्षणात्संज्ञामवाप सः । वीडितस्तां विसृज्याथ वनेऽस्मिन् प्रययौ द्रुतम् ॥२३॥