पृष्ठम्:मनोहरकाव्यमाला.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १४७ ) आत्माश्वपाचतां नीतो दर्शितं तच्चपक्वणम् ॥ १८ ॥ इन्द्र उवाच- प्रार्थ्यते यत्परं स्थानं समस्तैर्मनुजैर्भुवि । तदारोह हरिश्चन्द्र स्थानं पुण्यकृतां नृणाम् ॥ १६ ॥ हरिश्चन्द्र उवाच- देवराज नमस्तुभ्यं वाक्यं चेदं निवोध मे । मच्छोकमग्नमनसः कोसले नगरे नराः ॥२०॥ तिष्ठन्ति तानपास्यैवं कथं यास्याम्हं दिधम् । ब्रह्महत्या सुरापानं गोवधः स्त्रीवधस्तथा ॥ २१ ॥ तुल्यमेभिर्महत्पापं भलत्यागादुदाहृतम् । भजन्तं भक्तमत्याज्यं त्यजतः स्यात्कथं सुखम् ॥ २२ ॥ तैर्विना न प्रयास्यामि तस्माच्छकं दिवं व्रज । यदि ते सहिताः स्वर्ग मया यान्ति सुरेश्वर ॥ २३ ॥ ततोऽहमपि यास्यामि नरकं वाऽपि तैः सह । इन्द्र उवाच- बहूनि पुण्यपापानि तेषां भिन्नानि वै नृप ॥ २४ ॥ कथं संघातभोज्यं त्वं भूप स्वर्गमभीप्ससि । । हरिश्चन्द्र उवाच- भुक्ते शक्र नृपो राज्यं प्रभावात्प्रकृतेर्ध्रुवम् ॥ २५ ॥ यजते च महायज्ञैः कर्मपूर्तं करोति च । तच्च तेषां प्रभावेण मया सर्वमनुष्ठितम् ।। २६ ॥ १ उपदाद्यन्न संत्यदये तानहं स्वर्गलिप्सया । तस्माद्यन्मम देवेश किंचिदस्ति सुवेष्टितम् ॥ २७ ॥ दत्तमिष्टं हुतं जप्तं सामान्य तैस्तदस्तु नः । वहुकालोपभाज्यं च फलं यन्मम कर्मगम् ॥ २८ ॥ तदस्तु दिनमप्येकं तैः समं त्वत्प्रसादतः । 342